पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कागमसहित चन्द्रालोके- = = = ~ दधातीत्यर्थः । काव्यप्रकाशे तु-उपनागरिकापरुषाकोमलेति वृत्तित्रयमभिधाय, एतासामेव वैदर्भीगौडीपाञ्चालीति संज्ञान्नयं वामनादिभिरुकमत वृत्तीनां रीतीनां व न भेद इत्युक्तम् । अन्न तु रीतीनां समासव्यङ्ग्यत्वं वृत्तीनां तु वर्णानुपूर्वीव्यङ्ग्यत्व'. मिति भेद उक्तः ॥ ३८ ॥ । महादेवः सबप्रमुखमखविचैकचतुरः । | सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति ऋतुसङ्ख्यः सुखयतु ॥ २९ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवकृते चन्द्रालोकालङ्कारे सरीति- वृत्तिविचारो नाम षष्ठो मयूखः । विश्वेश्वरापसख्येन गागाभट्टेन धीमता । चन्द्रालोकस्य विवृतिर्मयूखेऽङ्गसमे कृता ।। इति गागाभट्टकृतचन्द्रालोकटीकायां राकागमे षष्ठो मयूखः सप्तमो मयूखः । रसस्वरूप निरूप्य तस्य व्यञ्जनैकगम्यतया व्यञ्जनां निरूपयति श्लोकद्वयेन- वृत्तिभेदेखिभियुक्ता स्रोतोभिरिव जाह्नवी । भारती भाति गम्भीरा कुटिला सरळा क्वचित् ॥ १ ॥ साम्मुख्यं विदधानायाः स्फुटमर्थान्तरे गिरः ।। कटाक्ष इव लोलाक्ष्या व्यापारी व्यञ्जनात्मकः ॥ २ ॥ वृत्तिभेदैरिति । व्यञ्जनवृत्त्या गम्भीरा, लक्षणया कुटिला, अक्या सरलेत्यर्थः । शक्यलक्ष्यान्यतरप्रतीत्युत्तरप्रततिजनकत्वं गम्भीरत्वम् । शक्यार्थस्य त्यागेनाऽत्यागेम वाऽर्थान्तरप्रतीतिजनकत्वं कुटिलत्वम् । अविलम्बेनॉर्थ प्रत्यायकत्वं सरलत्वम् । स्रोत रूख अगाधत्ववक्रत्वऋजुत्वानि । सामुख्यमिति । अर्थान्तरे शक्यलक्ष्यार्थभिन्नेथे, विषयत्वं सप्तम्यर्थः, सामुख्यं प्रतीतिं विदधानायाः तद्विषयकप्रतीत कुवैतः शब्दस्य यो व्यापार, से व्यञ्जना । पुंसि समुख्यमभिलाधं कुर्वत्या लोलाक्ष्याः कटाक्षो यथै- त्यर्थः । अयमशियः-‘मायां घोष इत्यादौ शैत्यपावनत्वादि, मुखं विकसितस्मितं वशितवक्रिमप्रैक्षित -समुच्छलितथिमा गतिरपास्तसंस्था मतिः।