पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकीगमसहिते चन्द्रालोकै- - = = -= -

-=-=-

-=- -*-* -

-*-*-* -*-* इलोकद्वयेन शृङ्कारमाह- रत्याख्यस्यायिभावात्मा वल्लभादिविभावितः ।। आलस्येयजुगुप्साभ्यो विना सञ्चाभिर्युतः ।। ४ ।। अनुभावैः कटाक्षायैरुन्मादाचैर्यथाक्रमम् ।। संयेागो विप्रलम्भश्च शृङ्गारो द्विविधो रसः ॥ ५ ॥ | रत्याख्येति । मनोऽनुकूलविषयं सुखात्मकं संवेदनं रतिः। रत्याख्यस्थायिभावा- हमको वल्लभादिविभावि तम्वन्निष्ठरूद्विषय इति यावत् । अलादीनां करुणरौढ़- बीभत्सव्यभिचारित्वात् । स शृङ्गारो द्विधा, संयोगो वियोगश्च । तावपि प्रच्छन्न प्रकाश रूपौ द्विधा । तदुत्वम्- 'जायापत्योर्मिथो रत्यावृत्तिः शृङ्गार उच्यते । संयोगो विप्रलम्भश्चेत्येव तु द्विविधो मतः ॥ तौ तयोर्भवतो वाच्यौ बुधैर्युक्तवियुक्तयोः । प्रच्छन्नश्च प्रकाशश्च पुनरेव द्विधा मतः ॥ इति । द्विविधस्यापि संयोगस्य स्वेदाश्रुरोमाञ्चकम्पश्वसितकेशबन्धशुकशयन. पुष्पमाल्यादिसम्यनिवेशचाटुप्रभृतयोऽनुभावाः । वियोगद्वये असन्तोषकृशतादीन. वचनजागरविलापलेखलेखनवाचनवातप्रश्नमरणोद्यमसन्देशादयोऽनुभावाः । आलस्ये. ब्र्याजुगुप्सावर्जिताः संयोगद्वयेऽपि हर्षादयो व्यभिचारिणः। वियोगद्वये शामग्लानि. निवेदमरणादयो व्यभिचरिणः । वियोगश्च- पूर्वानुरागमानात्मप्रवासकरुणात्मकः । विप्रलम्भश्चतुर्धा स्यात् पूर्वपूर्वी ह्ययं गुरुः ॥ इति । अयमेवामिलाषविरहेण्यप्रवासशापहेतुक इति गीयते । तत्र प्रच्छन्न- संयोगो यथा-- अमटि सस्मितं नमितकन्धर प्रोल्लस- कपोलपुलकावलि क्वसितकम्पितोरोजकम् । उदञ्चितभुजायुगग्रथितकेशपाशं पुरो | गुरोरपि हरिः सुखं सपदि राधयाऽऽलोक्यते ॥ संयोगानामवलोकनालिङ्गनचुम्बनादीनामनेकरूपत्वावलोकनरूपः शृङ्गारः । तस्य व राधिकानिष्ठस्मितादयो राधिकानिष्ठस्य रत्याख्यस्थायिभावस्य कार्यत्वादनुभावाः । कुणनिष्ठरल्याख्यस्थायिभावस्योद्दीपकत्वादुद्दीपनविभावा अपि भवन्ति । न चोद्दीपन- विभावानां कारणरूपत्वादनुभावान कार्यरूपत्वादुमयरूपत्वं विरुद्धमिति वाच्यम् । अन्यनिष्ठरतिकार्यस्यान्यनिष्ठरतिकारणत्वे बाधकाभावात् । वियोगरूपश्रुझारानुभाव को कणसस्थायित्वमिव ।•प्रकाशो यथा--