पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयुखः । भाविकलिङ्कारमाह- भाविकं भूतभाव्यर्थसाक्षाहर्शनवर्णनम् । अलं विलोकयायापि युध्यन्तेऽत्र सुरासुराः ।। ११३ ॥ भाविकमिति । भुताश्च भाविनश्वार्थः तेषां दर्शनं साक्षात्कारकथनं भाविका लङ्कारः । भावः कवेरभिप्रायोऽत्रास्तीति योगः । अलमिति रणभूमिवर्णनम् । युध्यन्त इति वर्तमानस्य युद्धस्य विलोकनकथनम् । यथा वा- | आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम् ॥ | अन्न आद्याचें भूतस्य द्वितीये भाविनो दर्शनम् । नायमद्भुतो रसः, विस्मथ प्रत्ययाऽहेतृत्वात् । नातिशयोक्तिः , अध्यवसायाभावात् ॥ ११३ ॥ भाविकच्छविरलङ्कारमाह- देशात्मविप्रकृष्टस्य दर्शन भाविकच्छविः ।। त्वं वसन् हृदये तस्याः साक्षात्पश्चेषुरिक्ष्यसे ।। ११४ ॥ देशेति । देशे आश्रयोत्कर्षवशेन विप्रकृष्टस्य साक्षाद्दर्शनकथने भाविकच्छविरल- ङ्काः । त्वमिति लक्ष्यम् । अन्यहृदयनिष्ठतया विप्रकृष्टस्य कामस्य दर्शनोः ॥११४॥ उदात्तालङ्कारमोह- उदात्तमृद्धिश्चरितं श्लाघ्यं चाऽन्योपलक्षणम् । सानौ यस्याभवद्युद्धं तजटिकिरीटिनोः ॥ ११ ॥ उदात्तमिति । इलाघ्या ऋद्धिः इलाध्यं चरितं धान्योपलक्षणत्वेन कथ्यते यत्र, तन्नोदात्तालङ्कारः । सानाविति लक्ष्यम् । भवार्जुनयुद्ध विशिष्टशिखरस्व पर्वतोपलक्षण त्वाद् । यथा वा- तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनात् । निवस्नु बाहुसहायश्चकार रक्षक्षय रामः ॥ यथा वा- यस्मिन्नासन् कुसुमतरवस्त्र जानेटवोर्थ | यारण्ये वसति भवनान्येव जातानि तत्र । तीर्थ मार्ग समभवदथो तीर्थदेशेऽपि पन्थाः किन्वत्रेदं तदिति धिषण पर्वतानं करोति ।। धिं यथा-- मुकाः केलिविस्त्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राणसीमित मन्थरचढ्द्रालात्रिलाक्षारणाः ।