सामग्री पर जाएँ

पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
गोपीगीतार्थकोमुदीसहिता-


'कामानां भर्जनंनृणा'-मित्युक्तेः। 'हरिस्मृतिः सर्वविपद्विमोक्षण'- मित्याधुक्तेश्च भवत्पदस्मरणेन सर्वापद्विनश्यतीति कामेषु भवान् कर्कश इति भावः ॥१३॥ यद्वा कामेष्वनङ्गेषु विषयेषु भवान् कर्कशनामौषधमेव रोचन्येव, सा हि कामोद्दीपनी। !अतो हे इषुकर्कशेति तव सम्बोधनम्। अतः कर्कशेषु कुचेम्वित्यादि योज्यम् । भङ्गश्लेशः ॥ १४ ॥ यद्वा कामेषु कर्कश साहसिक ॥ १५॥ यद्वा अमसृण, एतेन सुतरां कामलम्पटत्वग्व्यज्यते। अत एव भयरहिताः सत्यः शनैः कठोरेषु कुचेषु तव चरणा. स्बुरुहं दधीमहि। 'स्यात्कर्कशः साहसिकः कठो- रामसृणावपि' इत्यमरः। साहसिको विवेकरहितः, अमसृणो दुःस्पर्शः। 'कर्कशः कठिने क्रूरे कृपणे निर्दये दृढ़, इक्षौ साहसिके कासमर्दकाम्पिल्ययोरपी'-ति विश्वकोशानुसारेणार्था- न्तरं योजनीयम्। कामकर्कशस्य तव चरणं कर्कशस्तनेष्वेव धर्तु योग्यमिति समालंकृतिः। 'समं स्याद्वर्णनं यत्र द्वयो- रप्यनुरूपयो'-रिति तल्लक्षणात् ॥ १६॥ यद्वा वसुदेवोत्पन्न- त्वात्सुजातत्वम् । नन्दात्मजपक्षे तु गोपत्वादसुजातत्वम्। सादृश्यवाचकेन नञासुजातसदृशत्वम्प्रतीयते। हे असु- जात ! हे सुजातेतिभङ्गश्लेषः, विरोधपरिहारस्तु वास्तविका- सुजातत्वाभावाद्बोध्यः ॥१७॥ यद्वा कर्कशाः कठिनाः 'कर्कशं कठिनं क्रूरम्' इत्यमरः। इषवो बाणाः 'इषुर्द्वयो:-रित्यमरः, यस्य स कर्कशेषुः कामः स यस्मिन्कर्मणि यथा स्यात्तथा क्रिया. विशेषणानां नपुंसकत्वं द्वितीयैकवचनान्तत्वं चेति नियमा