पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
गोपीगीता-


तीति पृथक् पूर्ववन्नामैकदेशेन तिपदेन युवतीसम्बोधनम्, तच्च सामानाधिकरण्येन धियान्वेति तथा च हे धीः हेयुवति ! त्वं भ्रम । पादशून्याया भ्रमणं कुत इति चेद्विपर्याप्तादिमत्त्वमेव तव भ्रमणम् । अध्यवसायलक्षणं स्वधर्मं त्यक्त्वाविपर्याससं. शयादिकं मनोधर्मं गृहाण नो चेद्भवदायुषां धीर्भ्रमति, एत- दनुभवात्स्वधर्मत्यक्त्वा परधर्मस्त्वया गृहीत इत्यनुमीयते, निश्चयात्मिका बुद्धिरिति तव ख्यातिर्नष्टा। त्वत्कृत एवास्माक- मेतादृशः क्लेशः स्वपतिं त्यक्त्वा रात्रौ काननमागताः, यदर्थ- मागताः सोऽपि राधामादायपलायिष्ट, पुनश्च तत्प्राप्तुमनसस्त- त्प्रतीक्षां कुर्मः, इत्यभिप्रायः। एतेन भ्रमावलम्बिधीनिन्दाव्यज्यते ॥११॥ अत्रायम्बिचारः। अध्यवसायचणत्वेन धियोयुवतीत्वम् । यद्यपिचितिलन्निहिताधीश्चेतना तथापि पाचभौतिकशरीर- धर्मस्यावस्थाविशेषस्य तस्यामसम्भवात्। यदि तु वालातपमिवा ब्जानामितिवदौपचारिकं वयस्त्वम्, वालातपन्तरुपातपमि त्यादि दृश्यत इति चेदस्तु।प्राणिनांकालकृदवस्थाविशेषो वयः, तच्च जीवसन्निधानात्प्राणित्वमभ्युपगम्य तस्यामपि व्यवहार्य मिष्यत इति चेदस्तु येन केनाप्युपायेन धियो युवतीत्वसिद्धि रस्माकमभिप्रेता, किञ्च बालपौगण्डाद्यवस्थाविशेषेणधियो- भिद्यन्ते, अतस्तस्यामपि मुख्यवयस्त्वमित्युच्यते चेत्तथैवास्तु नास्माकं हानिः॥१२॥यद्वा कर्कशेष्वित्यत्र कर्कशेति पृथक् सम्बो- धनम् । इष्विति पृथक् विषयसप्तम्यन्तं,सतिसप्तम्यन्तं वा। इः कामः इच्छा तेषु विषयेषु तेषु सत्सुवा । हे कठोर!,अयम्भावः ।