यत्ते सुजातचरणाम्बुरुहं धीमहि, तस्य संसारनिवर्त्तकत्वात् ।
किं कृत्वा इति चेत्स्तना अस्मत्कुचा एवेषवः कामबाणा यथा-
स्यात्तथा धीमहि, अयम्भावः। कठिनाः स्थूला उत्तुङ्गाः कुचा
यदि न स्युस्तहिं कोऽपि युवाऽस्मान्नैव पश्येद्वयभिचारिण्यश्च
नैव भवेम । सर्वे दोषाः कुचकृता एव । एते कुचाः कामबाणाः
स्वयं मनसि निलीय कामः कुचबाणान्दर्शयति, तैर्मोहयति
चेत्यनुसन्धानवत्यो वयं तद्धीमहि कामभयदूरीकर्त्तुमम्बुरुह-
ध्यानं कुर्मस्तत्रापि भीता एव भवामः। अम्बुरुहस्यापि कामबाण
त्वात् । अत्रासङ्गतिभेदः । तेन भक्तभयभञ्जनहेतुना अटवीं
भवाटवीमटसि।अटवीपदेन भवाटवीनिगरणाद्रूपकातिशयोक्तिः।
भवाटवीं भ्रमति त्वयि सति मत्स्यावतारेणेति शेषः। तच्चरणा-
म्बुरुहं न व्यथते किंस्विदिति प्रश्नः । यथाऽरण्येकूर्पादयस्तथा
भवाटव्यामपि तत्समानाः स्त्रीपुत्रादयः । भवदायुषां नो
धीरेव व्यथते न तच्चरणम् । एतादृशीं सत्वप्रधानाम्बुद्धिं गोप्य
स्तुवन्ति धी भवदायुषांनः। धीरिति सम्बोधनम्।हेधी! सत्त्ववति
बुद्धे नोऽस्माकमायुषां भवदा संसारखण्डनी भवेतिशेषः यतस्त्वमेव
संसारदात्री यदारजःप्रधाना तदा त्वमेवधीःसंसारदात्री यदा तु स.
त्त्व प्रधाना तदा तु संसारखण्डनीचेति बुद्धिस्तुतिः। भवो देवः
संसारश्चेति दर्शनाद्देवदात्रीत्वमेवेत्यपि वोध्यते। देवखण्डन्यपि
त्वमेव । तव प्रातिकूल्यादेव नास्तिका देवाः परलोकश्च नेति
विप्रवदन्ते । किम्बहुना जैमिनिराचार्योऽपि देवमूर्तिखण्डयिताः
मन्त्र एव देवइति विवदते । तदसहिष्णुर्वादरायणः 'विरोध
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२७
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
गोपीगीतार्थकौमुदीसहिता-