पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
गोपीगीता-


यद्येषोपरता देवीत्युक्तमेव ॥ ३६ ॥ यद्वा सति वैराग्ये स्वजनाएव बान्धवा एव हृद्रुजस्तासां निषूदनम्। ततोनोऽस्माकं त्वत्स्पृहा त्वयि स्पृहा तवास्मदुपरि स्पृहा प्रेमा । सति स्वजने प्रेम्णि नैव वैराग्यम्। तमन्तरेण नात्मनि प्रेमेति तत्वं प्रदर्शितम् आत्मनां जीवानां त्वत्स्पृहा वा । चोहेतौ । परस्परं सति प्रेम्णि मनाक् ईषत् कार्पण्यं त्यजेति यथासम्भवमर्थः प्रतिपाद- नीयः॥४०॥ यत्ते सुजातचरणाम्बुरुहंस्तनेषु

 भीताः शनैः प्रिय दधीमहि कर्कशेषु ॥

तेनाटवीमटसि तद्वयथते न कि स्वि-

 त्कूर्पाहिभिर्भमति धीर्भवदायुषां नः ॥१६॥

यत्ते इति। यद्वा हे प्रियद प्रियमात्मानं ददातीति प्रियद, 'आत्मनस्तु कामाय सर्व प्रियम्भवती'-तिश्रुतेः। हे आत्मदेति तदर्थः। नहि भव न्तमृते आत्मदातारमन्यं पश्याम इति भावः॥१॥यद्वा प्रियं स्वमेवार्पयसि॥२॥ यद्वा हे कर्कश! दुज्ञेयत्वादिति भावः। गहनं शास्त्रमितिवद्दुर्ज्ञेये कर्कशकठोरादिशब्दः प्रयुज्यते।इष्वित्येकम्पदम्। अयःकामास्तेषु सत्सु सतिसप्तम्या विषयत्वमर्थः कामविषयेन्वि. त्यर्थः। एकोऽपि कामोऽतीवानर्थकारी चेद् बहूनान्तु कावार्त्तेति बहुवचनगम्योऽर्थः । अत एव भीताः सत्यः संसारादिति शेषः।


 *अभीष्टं धवा, "धवः प्रियः । अभीष्टे, इत्यमरः