पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
गोपीगीता-


'अभावे नह्यनोनापी'-त्यमरः। मुह्येति पृथक् ते इति पृथक् अ इति पृथक् हे अ! वासुदेव,हे अतिस्पृह! अतिक्रान्तस्पृह,अमुह्य, मोहं मा कुरु इत्यर्थः। सर्वजोवनिवासस्यातिकान्तस्पृहस्य मोहनमनुचितमिति यावत्। वयन्तु अतिस्पृहाः अतिक्रान्त- स्पृहाः, अतो नः अस्मान् अम आह्वानं कुरु, सम्भक्तिं कुरु वा, त्वं सस्पृहः वयन्तु अस्पृहाः। अतो जितेन्द्रिया योगिन्यः तस्माद स्मद्भक्तिं कुरु इति तात्पर्यार्थः। अम गत्यादौ। लोण्मध्यम पुरुषैकवचनान्तः। तेमुहुरित्यत्र ते अमुहुः इतिच्छेदः। तत्रत्यः अ शब्दो वासुदेवार्थः ॥६॥ यद्वा ते उरो बृहत् कपाटवक्षास्त्वम् तथा धाम गृहादि बृहत् प्रेम वृहत् मनो बृहत् न तु तुच्छम् कृपणम्; उदारमना इत्यर्थः। वीक्षणं बृहत् प्रहसिताननं बृहत् एवं संविदादिपक्षेऽपि विभक्तिव्यत्यासेनार्थः। तथाहि स्त्री सम्विदित्यमरात्सम्विच्छब्दस्य स्त्रीत्वम्, तस्मात् रहसि बृहतीं सम्विदं बृहन्तं हृच्छयोदयं स्पृहाबृहती ताम्वीक्ष्येति विभक्तिविपरिणामः ॥ १० ॥ यद्वा बहुवचनान्तः स्पृहाः, वृहती- स्तव स्पृहा वीक्ष्य अनेकास्तवाकाङ्क्षाः, इत्थं करिष्यामीन्यादि बृहतीः श्रियो वीक्ष्य तव श्रीर्नेका, अपि तु बहुधा एवेति शसा लभ्यते। एतत्सर्वं वीक्ष्य अस्माकं मनः अतिमुह्यति। 'छन्दसिव्यवहिताश्चेति व्यवहितस्यातेर्मुह्यतिनान्वयः ॥१॥ यद्वा अतिशब्दस्य उरआदिभिरन्वयः अतिबृहदुरो वीक्ष्ये- त्यर्थः। एवमुत्तरत्राप्यतेरन्वयः 'महत्यपी त्यमरः। वाचिचे. तिबिश्वाद्वागुरः श्रिय इत्यर्थः ॥१२॥ यद्वा हृच्छयेत्येकम्प-