पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
गोपीगीतार्थकौमुदीसहिता-


प्रमाणे चे ति कोशः ॥५॥ यद्वा हेअम नःअस्माकंतत् सम्वीक्ष्य मुह्यते तुभ्यमस्माकं मनो मुह्यति इति शेषः। एतेन परस्परं मोहः। मुह्यत इत्यात्मनेपदन्त्वार्षम्। मुह्यत इति चतुर्थ्यन्तं स्वीकृत्य मदुक्तव्याख्यानन्त्वार्षंविनैव सम्भवेदिति सुधियो विभावयन्तु। क्रियायोगे सम्प्रदा नत्वाञ्चतुर्थी ॥६॥ हे मनः! मुह्यते तुभ्यमतिस्पृहा,वयन्त्यतिस्पृहाः स्पृहा मतिक्रान्ता अतिस्पृहाः, अति क्रान्ता स्पृहा याभिस्ता इति बहुब्राहिर्वा।'मन एव मनुष्याणा'मित्युक्ते बंन्धनहेतुस्त्वमेव,वयन्तु नित्यमुक्ताः। नित्यमुक्तानांकुतस्पृहेति तु परमार्थः। 'स्पृहेरीप्सित' इति सम्प्रदानत्वान्मुह्यत इति चतुर्थी। स्पृहायाः कर्त्र्या ईप्सितो मोहो मोहस्विना स्पृहाया अनुत्पत्तेः तथा च स्पृहोपादानकारणं मोहः, कार्यस्येप्सितमुपादानम्भवति। उपादाननाशात्कार्यनाशस्य दृष्टत्वात् स्पृहा कर्त्री मुह्यते तुभ्यं मनसेऽतिस्पृहा भवति, मनो हि मोहसागरमग्नमतो निरवधिबन्धनागारबन्धितं कथमस्योद्धारः स्यादिति स्पृहयाम इतिभावः। वयन्त्वति स्पृहाः, अतीति सप्तम्यन्तम्। अततीत्यत्,तस्मिन्नति अतसातत्यगमने क्विवन्तः। सततगमनशालिनि त्वयि अस्माकं स्पृहा नित्यज्ञानवति वा गम नार्थस्य ज्ञानार्थत्वात्,अतोऽनुह्यते तुभ्यं नमः।नमः शब्दस्याध्याहारो योग्यत्वात्॥ायद्वा हे मनः! हे अतिस्पृह अस्माकमुपरितवाति स्पृहा वर्तते॥८॥यद्वा अत्यन्तं स्पृहास्माकं यस्मिन्निति बहुव्रीहिर्वा। एतेना परस्परानुरागो व्यज्यते। अस्माकं मनस्तव मनश्च परस्परोपरि आमुह्यति, अभिविधावाङ। अइति पृथक् निषेधपरम्।।