पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66 गणितसारसङ्ग्रहः

व्यधृष्टकशतयुक्तास्त्रिशत्कार्षापणाः पणाश्चाष्टौ ।
मासाष्टकेन जाता दलहीनेनैव का वृद्धिः ॥ ६ ॥

षया वाडिर्टष्टा पञ्च पुराणाः पणत्रयविमिश्राः ।
मासद्वयेन लब्ध शतऋद्धिः का त वर्षस्य ।। ७ ॥

सार्धशतकप्रयोगे सार्धकमासेन पञ्चदश् लाभः ।
मासदशकेन लब्धा शतत्रयस्यात्र का वृद्धिः ॥ । ८ ॥

साष्टशतकाष्टयोगे त्रिषष्टिकार्षापणा विशा दत्ताः ।
सप्तानां मासानां पञ्चमभागान्वितानां किम् ॥ ९ ॥

मूलानयनसूत्रम्--

मूलं स्वकालगुणितं खफलेन विभाजितं तदिच्छायाः।
कालेन भजेल्लब्धं फलेन गुणितं तादिच्छा स्यात् ॥ १० ॥

अत्रोद्देशकः ।

पञ्चधैकशतयोगे पञ्च पुराणान्दलोनमासीौ द्वौ ।
खुडि लभते कश्चित् किं मूलं तस्य मे कथय ॥ ११ ॥

सप्तत्याः सार्धमासेन फलं पञ्चधमेव च ।
ध्यर्धाष्टमासे मूलं किं फलयोस्साधयेद्दयोः ॥ १२ ॥

त्रिकपञ्चकषट्शते यथा नवाष्टादशाथ पञ्चक्रुतिः।
पञ्चांशकेन मिश्रा षट्सु हि मासेषु कानि मूलानि ॥ १३ ॥

कालानयनसूत्रम्

कालगुणितप्रमाणं स्वफलेच्छाभ्यां हृतं ततः कृत्वा ।
तदिहेच्छाफलगुणितं लब्धं कालं बुधाः प्राहुः ॥ १४ ॥