63
गोधूमानां मानीर्नव नयता योजनत्रयं लब्धाः ।
षष्टिः पणाः सवाहं कुम्भं दशयोजनानि कति ॥ ३६ ॥
भाण्डप्रतिभाण्डस्योद्देशकः ।
1
कस्तूरीकर्षत्रयमुपलभते दशभिरष्टभिः कनकैः ।
कर्षद्वयकर्ररं मृगनाभित्रिशतकर्षकैः कति न ॥ ३७ ॥
पनसानि षष्टिमष्टभिरुपलभतेऽशतिमातुलुङ्गानि ।
दशभिर्मापैर्नवशतपनसैः कति मातुलुङ्गानि ॥ ३८ ॥
जीवक्रयविक्रययोरुद्देशकः ।
षोडशवर्षांस्तुरगा विंशतिरर्हन्ति नियुतकनकानि ।
दशवर्षसप्तिसप्ततिरिह कति गणकाग्रणीः कथय ॥ ३९ ॥
स्वर्णत्रिशती मूल्यं दशवर्षाणां नवाङ्गनानां स्यात् ।
षत्रिंशन्नारीणां षोडशसंवत्सराणां किम् ॥ ४० ॥
षट्कशतयुक्तनवतेर्दशमासैवृद्धिरत्र का तस्याः ।
कः कालः किं वित्तं विदिताभ्यां भण गणकमुखमुकुर ॥ । ४१॥
सप्तराशिक उद्देशकः।
त्रिचतुष्यसायामौ श्रीखण्डार्हतोऽष्टहेमानि ।
षण्णवविस्तृतिदैव्यं हस्तेन चतुर्दशात्र कति ॥ ४२ ॥
इति सप्तराशिकः ।
• B add ना at the end
2 K, M and B read हेमकर्घः for ना.
AD
पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
