पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः द्वात्रिंशद्धस्तदीर्घः प्रविशति विवरे पञ्चभिस्ससमाधैः कृष्णाहीन्द्रो दिनस्यासुरवपुरजितः सार्धसप्ताङ्गलानि । पानाहोऽङ्गले हे त्रिचरणसहिते वर्धते तस्य पुच्छे रन्धं कालेन केन प्रविशति गणकोत्तंस में ब्रूहि सोऽयम् ॥ ३१ ॥ इति गतिनिवृत्तिः ॥ पञ्चसप्तनवराशिकेषु करणसूत्रम्- 'लाभं नीत्वान्योन्यं विभजेत् पृथुपङ्मिल्पया पङ्कया। गुणयित्वा जीवानां क्रयविक्रययोस्तु तानेव ॥ ३२ ॥ । अत्रोद्देशकः ।। द्वित्रिचतुश्शतय.गे पञ्चाशत्षष्टिसप्ततिपुराणाः । लाभार्थिना प्रयुक्ता दशमासेष्वस्य का वृद्धिः ॥ ३३ ॥ हेम्नां सार्धाशीतेमसञ्यंशेन वृद्धिरध्यर्धा ।। सत्रिचतुर्थनवत्याः कियती पादोन षण्मासैः ।। ३४ ।। षोडशवर्णककाञ्चनशतेन यो रत्नविंशतिं लभते ।। दशवर्णसुवर्णानामष्टाशीतिद्विशत्या किम् ।। ३५ ॥ 1 P reads as variations the following: प्रकारान्तरेण सतम्-- सङ्क्रम्य फलं छिन्द्याल्लघुपङ्क्त्यानेकराशिकां पङ्क्तम् ।। स्वगुणामश्वादीनां क्रयविक्रययोस्तु तानेव ॥ अन्यदपि सूत्रम्- सङक्रम्य फलं छिन्द्यात् पृथुपङ्क्त्यभ्यासमल्पया पङ्क्त्या । अश्वादीनां क्रयविक्रययोरश्वादिकांश्च सङ्क्रम्य ॥ B gives only the latter of these stanzas with the following variation in whe bacond uarter: पृथुपक्यभ्यासमल्पपत्याहत्या.