पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 गणितसारसङ्गहः

गुणधनस्य गुच्छानयनसूत्रम्
मुखक्षते गुणवत्ते यथा निग्रं तथा गुणेन हृते ।
यावत्योऽत्र शलाकास्तावान् गच्छो गुणधनस्य ॥ ९ ॥

गुणसङ्कलितोदाहरणम् ।

दीनारपञ्चकादिद्विगुणं धनमर्जयन्नरः कश्चित् ।
प्राविशदष्टनगरीः कति जातास्तस्य दीनाराः ॥ ९९ ॥
सप्तमुखात्रिगुणचयत्रिवर्गगच्छस्य किं धनं वणिजः ।
त्रिकपञ्चकपञ्चदशप्रभवगुणोत्तरपदस्यापि ॥ १०० ॥

गुणसङ्कलितोत्तराद्यानयनसूत्रम् –
असकृचेकं मुखहतवित्तं येनोद्धृतं भवेत्स चयः ।
व्येकगुणगुणितगणीतं निरेकपदमात्रगुणवधातुं प्रभवः ।। १०१ ॥

अत्रोद्देशकः ।

त्रिमुवर्तुगच्छणाङ्काम्वरजलनिधिधने कियान्प्रचयः ।
षङ्गणचयपञ्चपदाम्वरशशिहिमचुत्रवित्तमत्र मुखं किम् ॥ १०२ ॥

गुणसङ्कलितगच्छानयनसूत्रम् .
एकोनगुणाभ्यस्ते प्रभवहृतं रूपसंयुतं वित्तम् ।
यावत्कृत्वो भक्तं गुणेन तद्रसम्मितिर्गच्छः ॥ १०३ ॥

अत्रोद्देशकः ।

त्रिप्रभवं पटुगुणं सारं सप्तत्युपेतसप्तशती ।
सप्ताग्रा ब्रूहि सरवे कियत्पदं गणक गुणनिपुण ॥ १०४ ॥
पधादिद्विगुणोत्तरे शरगिरिर्थकप्रमाणे धने
सप्तादि' त्रिगुणे नगेभदुरितस्तम्बेरमतृप्रमे ।

1 M .