पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 गणितसारसङ्गहः

दृष्टधनाद्युत्तरतो द्विगुणत्रिगुणद्विजागत्रिभागादीष्टधनाद्युत्तरानयन
सूत्रम् दृष्टविभक्तेष्टधनं द्विष्टं नत्नचयताडितं 'प्रचयः।
तत्प्रभवगुणं प्रभवो 'गुणभागस्येष्टवित्तस्य ॥ ८४ ॥

अत्रोद्देशकः ।

समगच्छश्चत्वारष्षष्टिर्मुखमुत्तरं ततो द्विगुणम् ।
तद्दयादि हतविभक्तस्वेष्टस्याद्युत्तरे ब्रूहि ॥ ८५ ॥

इष्टगच्छयोर्यस्ताद्युत्तरसमधनद्विगुणत्रिगुणद्विभागत्रिभागादिधनान-
यनसूत्रम् व्येकात्महतो गच्छस्वेष्टनो द्विगुणितान्यपदहीनः ।
मुवमात्मोनान्यकृतिर्दिकेष्टपदघातवर्जिता। प्रचयः ॥ ८६ ॥

अत्रोद्देशकः ।

पश्चाष्टगच्छपुस व्र्यस्तप्रभवोत्तरे समानधनम् ।
द्वित्रिगुणादेधनं वा ब्रूहि त्वं गणक विगणय्य ॥ ८७ ॥
द्वादशषोडशपदयोर्यस्तप्रभवोत्तरे समानधनम् ।
व्यादिगुणभागघनमपि कथय त्वं गणितशास्त्रज्ञ ॥ ८८ ॥

असमानोत्तरसमगच्छसमघनस्याद्युत्तरानयनसूत्रम्--
अधिकचयस्यैकादिश्चाधिकचयशेषचयविशेषो गुणितः।
विगतैकपदार्थेन सरूपश्च मुरवानि मित्र शेषचयानाम् ॥ ८९ ॥

अत्रोद्देशकः ।

एकादे षडन्तचयानामेकांत्रतयपञ्चसप्तचयानाम् ।
नवनवगच्छानां समवित्तानां चाशु वद मुरवानि सखे ।। ९० ॥


1 M गुणभागावुत्तरेच्छायाः . १ M गुण '. • A गणकमुखतिलक ।