पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः परिकर्मव्यवहारः

इतः परं परिकर्माभिधानं प्रथमव्यवहारमुदाहरिष्यामः ।

प्रत्युत्पन्नः

तत्र प्रथमे प्रत्युत्पन्नपरिकर्मणि करणसूत्रं यथा-

गुणयेद्गुणेन गुण्यं कवाटसन्धिक्रमेण संस्थाप्य ।

राश्यर्धखण्डतत्स्थैरनुलोमविलोममार्गाभ्याम् ॥ १ ॥

अत्रोद्देशकः ।

दत्तान्येकैकस्मै 'जिनभवनयाम्बुजानि तान्यष्टौ ।

वसतीनां चतुरुत्तरचत्वारिंशच्छताय कति ॥ । २ ॥

नव पद्मरागमणयस्समर्चिता एकजिनगृहे दृष्टाः ।

साष्टाशीतिद्विशतीमितवसतिषु ते कियन्तस्स्यु ॥ ३ ॥ }

चत्वारिंशच्चैकोनशताधिकपुष्यरागमणयोऽच्यः ।

एकस्मिन् जिनभवने सनवशते ब्रूहि कति ममयः ॥ ४ ॥

पझानि सप्तविंशतिरे कस्मिन् जिनगृहे प्रदत्तानि ।

साष्टानवतिसह "सनवशते तानि कति कथय ॥ ५ ॥

12

एकैकस्यां वसतोवष्टोत्तरशतसुवर्णपद्मानि ।

एकाष्टचतुस्सप्तकनवषयाष्टकानां किम् ॥ ६ ॥ -


1 K तत्र च. K and B विन्यस्योभौ राशी. 3 K and B सङ्गणयेत्.

+ B स्य हि. 5 B नस्या. ७ B शतस्य कति भवनानाम्.

• • • M and B चत्वारिंशद्यका शताधिका. 8 M ऽच्छाः .

५ M ते कियन्तस्स्युः . 0 M एकैकजिनालयय दत्तानि.

"M प्रयुक्तनवशतगृहाणां किम्, TE This stanza is found only in M and B.