पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10

गणितसारसङ्गहः

शशिवसुरवरजलनिधिनवपदार्थभयनयसमूहमास्थाप्य ।

हिमकरविषनिधिगतिभिर्गुणिते कि ' राशिपरिमाणम् ॥ ७ ॥

हिमगुपयोनिधिगतिशशिवह्निव्रतनिचयमत्र संस्थाप्य ।

सैकाशीत्या त्वं मे गुणयित्वाचक्ष्व तत्सद्भयाम् ॥ ८ ॥

अग्निवसुवरभयेन्द्रियशशलाञ्छनराशिमत्र संस्थाप्य ।

रन्नैर्गुणयित्वा मे कथय सरवे राशिपरिमाणम् ॥ ९ ॥

नन्दादृतुशरचतुस्त्रिद्वन्द्वैकं स्थाप्य मत्र नवगुणितम् ।

आचार्यमहावीरैः कथितं नरपालकण्ठिकाभरणम् ॥ १० ॥

षट्रत्रिकं पञ्चषट्च सप्त चादौ प्रतिष्ठितम् ।

त्रयस्त्रिंशत्सङ्गणतं कण्ठाभरणमादिशत् ॥ ११ ॥

हुतवहगतिशशिमुनिभिर्वसुनयगतिचन्द्रमत्र संस्थाप्य ।

शैलेन तु गुणायत्वा कथयेदं रत्नकण्ठिकाभरणम् ॥ १२ ॥

अनलाब्धिहिमगुमुनिशरदुरिताक्षिपयोधिसोममास्थाप्य ।

शैलेन तु गुणयित्वा कथय त्वं राजकण्ठिकाभरणम् ॥ १३ ॥

गिरिगुणदिवीिगिरिगुणदिविगिरिगुणनिकरं तथैव गुणगुणितम्।

पुनरेवं गुणगुणितम् एकादिनवोत्तरं विद्धि ॥ १४ ॥

सप्त शून्यं द्वयं इन्डै पचैकश्च प्रतिष्ठितम् ।

त्रयःसप्ततिसङ्गण्यं "कण्ठाभरणमादिशेत् ॥ १५ ॥

जलनिधिपयोधिशशधरनयनद्रव्याक्षिनिकरमास्थाप्य ।

गुणिते तु चतुष्षष्टया का सर्वांचा गणितविद्रुहि ॥ १६॥


  • M and B किन्तस्य. 2 3 प्यम्. अM अहं. * M मे शीघ्रम्.

• B विन्यस्य a Stanzas from 10 to 15 are found only in M and B.

१ A1] the MES. read स्थाप्य तत्र.6 B शे . 3 B नय

All the Mrs. give the metrically erroneous reading कण्ठाभरणं विनिदिशेत् ।