पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
गणितसारसङ्गहः

पलैर्द्वादशभिस्सार्धैः प्रस्थः पलशतद्वयम ।

तुला दश तुला भारः सङ्ख्यादक्षाः प्रचक्षते ॥ ४४ ॥

वस्त्राभरणवेत्राणां युगळान्यत्र विंशतिः ।

कोटिकानन्तरं भाष्ये परिकर्माणि नामत : ॥ ४५ ॥

अथ पारिकर्मनामानि ।

आदिमं गुणकारोऽत्र प्रत्युत्पन्नोऽपि तद्भवेत्।

द्वितीयं भागहाराख्यं तृतीयं कृतिरुच्यते ॥ ४६ ॥

चतुर्थे वर्गमूले हि भाष्यते पञ्चमं घनः ।

घनमूलं ततष्षष्ठं सप्तमं च चितिस्स्मृतम् ।। ४७ ॥

तत्सङ्कलितमप्युक्तं व्युत्कलितमतोऽष्टमम ।

तच शेषमिति प्रोक्तं क्षिन्नान्यष्टावन्यपि ॥ ४८ ॥

अथ धनणन्यावषयकसामान्यानियमः ।

ताडितः वेन राशिः र्वं सोऽविकारी हतो युतः ।

हीनोऽपि रववधादिः रवं योगे रवं योज्यरूपकम् ॥ ४९ ॥

ऋणयोर्धनयोर्धाते भजने च फलं धनम् ।

ऋणं धनर्णयोस्तु स्यात्स्वर्णयोर्विवरं युतौ ॥ ५० ॥

ऋणयोर्धनयोर्योगो यथासङ्ख्यमृणं धनम् । ।

शोध्यं धनमृणं राशेः ऋणं शोध्यं धनं भवेत् ।। ५१ ।

धनं धनर्णयोर्वर्गे मूले स्वर्गे तयोः क्रमात् ।

अणं चरूपतोऽवतुं यतस्तस्मान्न तत्पदम् ॥ ५२ ॥

अथ सङ्ख्यासंज्ञाः ।

शशी सोमश्च चन्द्रेन्दू प्रालेयांशू रजनीकरः ।

श्वेतं हिमगु रूपञ्च मृगाङ्कश्च कलाधरः । ५३ ॥


• ४ रं. 2 M डि. * M विद्यात्कलासवर्णस्य.

  • Stanzas 58 to 68 occur only in M, and are given here, though erroneous

here and there, as found in the original.

• Used here in the 4th conjugation, active voice,