एतत् पृष्ठम् अपरिष्कृतम् अस्ति
संज्ञाधिकारः
सेयं चतुर्गुणा वाहः कुम्भः पञ्च प्रवर्तिकाः ।
इतः परं सुवर्णस्य परिभाषा विभाष्यते ॥ ३८ ॥
अथ सुवर्णपरिभाषा ।
चतुर्भिर्गण्डकैगुञ्जा गुञ्जाः पञ्च पणोऽष्ट ते ।
धरणं धरणे कर्षः पलं कर्षचतुष्टयम् ॥ ३९ ॥
अथ रजतपरिभाषा ।
धान्यद्वयेन गुफैका गुजयुग्मेन माषकः ।
माष षोडशकनात्र धरणे परभाष्यते। ॥ ४० ॥
तद्वयं सार्धकं कर्षः पुराणांश्चतुरः पलम् ।
रूप्ये मागधमानेन प्राहुस्सङ्ख्यानकोविदाः ॥ ४१ ॥
अथ लोहपरिभाषा ।
कला नाम चतुष्पादाः सपदार्षकल यवः ।
थवैश्चतुर्भिरंशस्स्याद्भागोंऽशानां चतुष्टयम् ।। ४२ ॥
द्रणो भागषट्रेन दीनारोऽस्माद्विसङ्गणः ।
द्वौ दीनारौ सतेरं स्यात्प्राहुलेहेऽत्र सूरयः ॥ ४३ ॥
- For the whole of धान्यपरिभाषा, P and B add what is given below as another
reading and M has it in the original with the variations which are enclosed in trackets.
भाद्या षोडशिका तत्र कुड(ङ)बः प्रस्थ आढक :। द्रोणो मानी तत: खारी क्रमेण (मश:*) चतुराहताः ॥ (सहत्रैश्च त्रिभिष्यङ्गितैश्च त्रीहिभिस्समम्। यस्सम्पूर्णेऽभवत्सोऽयं कुडुबः परिभाष्यते ॥ ) प्रवतकात्र ताः पञ्च वाहस्तस्याश्चतुर्गुणः । कुम्भस्सपादवाहस्स्यात् (पञ्च प्रवर्तकः कुम्भ:) स्वर्णसंज्ञाथ वर्यते ॥ ॐ सतेराख्यम्, • In Balco.