पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छायाव्यवहारः 153

विषुवच्छाया यत्रयत्र देशे नास्ति तत्रतत्र देशे इष्टशङ्कोरिष्टकालच्छायां
ज्ञात्वा तत्कालानयनसूत्रम्--

छाया सैका द्विगुणा तया हृतं दिनामितं च पूर्वाह्ने ।
अपराह्ने तच्छेषं विज्ञेयं सारसङ्ग्रहे गणिते ॥ ८(१/२) ॥

अत्रोद्देशकः ।

पूर्वाहे पौरुषी छाया त्रिगुणा वद किं गतम् ।
अपराहेऽवशेषं च दिनस्यांशं वद प्रिय ॥ ९(१/२) ॥

दिनांशे जाते सति घटिकानयनसूत्रम्-
अंशहतं दिनमानं छेदविभक्तं दिनांशके जाते ।
पूर्वादं गतनाड्यस्त्वपरावे शेषनाब्यस्तु ॥ १०(१/२) ॥

अत्रोद्देशकः ।

विषुवच्छायाविरहितदेशेऽष्टांशो दिनस्य गतः ।
शेषश्चाष्टांशः का घटिकाः स्युः खाग्निनाज्योऽङ्कः ॥ ११(१/२) ॥

मछयुद्धकालानयनसूत्रम्

कालानयनाद्दिनगतशेषसमासोनितः कालः ।
स्तम्भच्छाया स्तम्भप्रमाणभक्तैव पौरुषी छाया।। १२(१/२) ॥

अत्रोद्देशकः ।

पूर्वाहे शङ्करुपच्छायायां मछयुद्धमारब्धम् ।
अपराहे द्विगुणायां समाप्तिरासीच्च युद्धकालः कः ॥ १३(१/२)॥

अपरार्धस्योदाहरणम् ।

द्वादशहस्तस्तम्भच्छाया चतुरुत्तरैव विंशतिका ।
तत्कले पोषिकच्छया कियती भवेद्दणक ॥ १४(१/२) ॥