पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


त्रगणितव्यवहारः 137

ज्येष्ठस्तम्भसङ्ख्यां च अल्पस्तम्भसङ्ख्यां च ज्ञात्वा उभयस्त.
म्भान्तरभूमिसङ्ख्यां ज्ञात्वा तज्ज्येष्ठसख्ये भग्ने सति ज्येष्ठस्तम्भाग्रे
अल्पस्तम्भाग्रं स्पृशति सति ज्येष्ठस्तम्भस्य भग्नसङ्ख्यानयनस्य स्थित-
शेषसङ्ख्यानयनस्य च सूत्रम् –-

ज्येष्ठस्तम्भस्य कृतेर्ह्रस्वावनिवर्गयुतिमपोह्यार्धम् ।
स्तम्भविशेषेण हृतं लब्धं भग्नोन्नतिर्भवति ॥ १९६(१/२) ॥

अत्रोद्देशक: ।

स्तम्भः पचोच्छायः परत्रयोविंशतिस्तथा ज्येष्ठः ।
मध्यं द्वादश भर्ज्येष्ठाग्रं पतितमितराग्रे ॥ १९७(१/२) ॥

आयतचतुरश्रक्षेत्रकोठिसङ्ख्यायास्तृतीयांशद्वयं पर्वतोत्सेधं परि-
कल्प्य तत्पर्वतोत्सेधसङ्ख्यायाः सकाशात् तदायतचतुरश्रक्षेत्रस्य भुज.
सङ्ख्यानयनस्य कणसङ्ख्यानयनस्य च सूत्रम्--

गिर्यत्सेधो द्विगुणो गिरिपुरमथ्याक्षितिर्गिरेरर्धम् ।
गगनं तत्रोत्पतितं गिर्यर्धव्याससंयुतिः कर्णः ॥ १९८(१/२) ॥

अत्रोद्देशकः ।

षड्रयोजनोर्वशिखरिणि यतीश्वरौ तिष्ठतस्तत्र ।
एकोऽद्विचर्ययागात्तत्राप्याकाशचार्यपरः ॥ १९९(१/२) ॥

श्रुतिवशमुत्पत्य पुरं गिरोिशैिरवरान्मूलमधरुह्यन्यः ।
समगतिकौ सञ्जातौ नगरव्यासः किमुत्पतितम् ।। २००(१/२) ॥

डोलाकारक्षेत्रे सम्भद्वयस्य वा गिरिद्वयस्य वा उत्सेधपरिमाण-
सङ्ख्यामेव आयतचतुरश्रक्षेत्रद्वये भुजद्वयं परिकल्प्य तद्दिरिद्वयान्तर
भूम्यां वा तत्स्तम्भद्वयान्तरभूम्यां वा आबाधाद्वयं परिकल्प्य तदाबाधा-

I2