पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

136 गणितसारसङ्ग्रहः

बाहुयोदशैकः पञ्चदश प्रतिभुजा मुरवं सप्त ।
भूमिरियमेकविंशतिरस्मिन्नवलबकाबधे ॥ १८७(१/२) ॥

समचतुरश्रक्षेत्रं विंशतिहस्तायतं तस्य ।
कोणेभ्योऽथ चतुभ्यं विनिर्गता रज्जवस्तत्र ॥ १८८(१/२) ॥

भुजमध्यं द्वियुगभुजे' रज्जुः का स्यात्सुसंवीता।
को वावलम्बकः स्याद्बाधे केऽन्तरे तस्मिन् ॥ १८९(१/२) ॥

सम्भस्थोन्नतप्रमाणसख्यं ज्ञात्वा तस्मिन् स्तम्भे येनकेनचित्कार-
णेन भग्ने पतिते सति तत्स्तम्भाषमूलयोर्मध्ये स्थितौ सत्यां ज्ञात्वा
तत्स्तम्भमूलादारभ्य स्थितपरिमाणसङ्ख्यानयनस्य सूत्रम्--

निर्गमवर्णान्तरमितिवर्गविशेषस्य यद्भवेदर्धम् ।
निर्गमनेन विभक्तं तावत्स्थित्वाथ भग्नः स्यात् ॥ १९०(१/२) ॥

अत्रोद्देशकः ।
स्तमस्य पञ्चविंशतिरुच्छूयः काश्चिदन्तरे मनः ।
स्तम्भाश्रमूलमध्ये पञ्च स गत्वा कियान् भग्नः ॥ १९१(१/२) ॥

वेणूच्छाये हस्ताः सप्तकृतः कश्चिदन्तरे भग्नः ।
भूमिश्च सैकविंशतिरस्य स गत्वा कियान् भम' ॥ १९२(१/२) ॥

वृक्षोच्छायो विंशतिरग्रस्थः कोऽपि तत्फलं पुरुषः ।
कर्णाच्या व्यक्षिपदथ तरुमूलस्थितः पुरुषः ॥ १९३(१/२) ॥

तस्य फलस्याभिमुखं प्रमुजरूपेण गत्वा च ।
फलमग्रहीच्च तत्फलनरयोर्गतियोगसदैव ॥ १९४(१/२) ॥

पञ्चशदभूत्तत्फलगतिरूपा कर्णसङ्ख्या का ।
तदृक्षमूलगतनरगतिरूपा प्रतिभुजापि कियती स्यात ॥ १९५(१/२) ॥


‘भुजचतुर्षु च is the reading found in the MS., but it is not correct.
१ The Sandhi in केऽन्तरे is grammatically incorrect ; but the author seems
to have intended the phonetic fusion for the sake of the metre; vide stanza 204(1/2)
of this chapter.