पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१५९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


127 क्षेत्रगणितव्यवहारः

आयतचतुरश्राणां क्षेत्राणां विषमबाहुकानां च ।
कर्णोऽत्र पञ्चषष्टिः क्षेत्राण्याचक्ष्व कानि स्युः ॥ १२४(१/२) ॥

इष्टजन्यायतचतुरश्रक्षेत्रस्य रज्जुसङ्ख्यां च कर्णसङ्ख्यां च ज्ञात्वा
तज्जन्यायतचतुरश्रक्षेत्रस्य भुजकाठसङ्ख्यानयनसूत्रम्--

कर्णकृतौ द्विगुणायां रज्वर्थछतिं विशोध्य तन्मूलम् ।
रवर्षे सकमणीकृते भुजा कोटिरपि भवति ॥ १२५(१/२) ॥

अत्रोद्देशकः ।

परािधिः स चतुस्त्रिंशत् कर्णश्चात्र त्रयोदशो दृष्टः ।
जन्यक्षेत्रस्यास्य प्रगणय्याचक्ष्व कोटिभुजौ ॥ १२६(१/२) ॥

क्षेत्रफलं कर्णसङ्ख्यां च ज्ञात्वा भुजकोठिसङ्ख्यानयनसूत्रम् –-

कर्णकृतौ द्विगुणीकृतगणितं हीनाधिकं कृत्वा ।
मूलं कोटिभुजौ हि ज्येष्ठे द्वेन सङ्कमणे ॥ १२७(१/२) ॥

अत्रोद्देशकः ।

आयतचतुरश्रस्य हि गणितं षष्टित्रयोदशास्यापि ।
कर्णस्तु कोटिभुजयोः परिमाणे श्रोतुमिच्छामि ॥ १२८(१/२) ॥

क्षेत्रफलसख्यां रज्जुसङ्ख्यां च ज्ञात्वा आयतचतुरश्रस्य भुज-
कोठिसङ्ख्यानयनसूत्रम्--

रज्वर्धवर्णराशेर्गणितं चतुराहतं विशोध्याथ ।
मूलन हि रज्व” सङ्कमणे सति भुजाकोठी ॥ १२९(१/२) ॥

अत्रोद्देशकः ।

सप्ततिशतं तु रज्जुः पञ्चशतोत्तरसहस्रमिष्टधनम् ।
जन्यायतचतुरश्रे कोटिभुज में समाचक्ष्व ॥ १३०(१/२)॥