सामग्री पर जाएँ

पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

126 गणितसारसङ्ग्रहः

कर्णो गणितेन समः समचतुरश्रस्य को भवेद्वाहुः ।
रज्जुर्द्विगुणोऽन्यस्य क्षेत्रस्य धनाच्च मे कथय ।। ११४(१/२) ॥

आयतचतुरश्रस्य क्षेत्रस्य च रज्जुतुल्यमिह गणितम् ।
गणितं कर्णेन समं क्षेत्रस्यान्यस्य को बाहुः ॥ ११५(१/२) ॥

कस्यापि क्षेत्रस्य त्रिगुणो बाहुर्धनाच्च को बाहुः ।
कर्णश्चतुर्गुणोऽन्यः समचतुरश्रस्य गणितफलात् ॥ ११६(१/२) ॥

आयतचतुरश्रस्य श्रवणं द्विगुणं त्रिसङ्गणो बाहुः ।
कोटिश्चतुर्गणा तै रज्जुयुतैfइगुणितं गणितम् ॥ ११७(१/२) ॥

आयतचतुरश्रस्य क्षेत्रस्य च रजुरत्र रूपसमः ।
कोटिः को बाहुर्वा शत्रं विगणय्य मे कथय ।। ११८(१/२) ॥

कणों द्विगुणो बाहुस्त्रिगुणः कोटिश्चतुर्गुणा मिश्रः ।
रज्ज्वा सह तत्क्षेत्रस्यायतचतुरश्रकस्य रूपसमः ॥ ११९(१/२) ॥

पुनरपि जन्यायतचतुरश्रक्षेत्रस्य बीजसङ्ख्यानयने करणसूत्रम्--

कान्नकणदलतत्कणोन्तरमुफययाध पदे ।
आयतचतुरश्रस्य क्षेत्रस्येयं क्रिया जन्ये ॥ १२०(१/२) ॥

अत्रोद्देशकः ।

आयतचतुरश्रस्य च काठः पचाशदधिकपच भुजा ।
साष्टाचत्वारिंशात्रिसप्ततिः श्रुतिरथात्र के बीजे ॥ १२१(१/२) ॥

इष्टकल्पितसङ्ख्याप्रमाणवत्कर्णसहितक्षेत्रानयनसूत्रम्--

यद्यत्क्षेत्रं जातं बीजैस्संस्थाप्य तस्य कर्णेन ।
इष्टं कथं विभजेछाभगुणाः कोटिदो:कर्णाः ॥ १२२(१/२) ॥

अत्रोद्देशकः ।

एकद्विकाद्विकत्रिकचतुष्कसप्तैकसाष्टकानां च ।
गणक चतुण शत्रिं बीजैरुत्थाप्य कोटिभुजाः ॥ १२३(१/२) ॥