पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणेतव्यवहारः 111

द्विसमत्रिभुजक्षेत्रस्यायामः सप्तसप्ततिर्दण्डाः ।
विस्तारो द्वाविंशतिरथ हस्ताभ्यां च सम्मिश्राः ॥ ९ ॥

त्रिभुनक्षेत्रस्य भुजस्त्रयोदश प्रतिभुजस्य पञ्चदश ।
भूमिश्चतुर्दशास्य हि दण्डा विषमस्य किं गणितम् ॥ १० ॥

गजदन्तक्षेत्रस्य च पृष्ठेऽष्टाशीतिरत्र सन्दृष्टाः ।
द्वासप्ततिरुदरे तन्मूलेऽपि त्रिंशदिह ' दण्डाः ॥ ११ ॥

क्षेत्रस्य, दण्डषष्टिबहुप्रतिबाहकस्य गणयित्वा ।
समचतुरश्रस्य त्वं कथय सर्वे गणितफलमाशु ॥ १२ ॥

आयतचतुरश्रस्य व्यायामः सैकषष्टिरिह दण्डाः ।
विस्तारो द्वात्रिंशद्यवहारं गणितमाचक्ष्व ॥ १३ ॥

दण्डास्तु सप्तषष्टिर्विसमचतुर्बाहुकस्य चायामः ।
व्यासश्चाष्टत्रिंशत् क्षेत्रस्यास्य त्रयात्रशत ॥ १४ ॥

क्षेत्रस्याष्टोत्तरशतदण्डा बाहुत्रये मुरवे चाष्टौ ।
हस्तैस्त्रिभिर्युतास्तात्रिसमचतुर्बाहुकस्य वद गणक ॥ १५ ॥

विषमक्षेत्रस्याष्टत्रिंशद्दण्डाः क्षितिभुवे द्वात्रिंशत् ।
पञ्चशप्रति बाहुः षष्टिस्वन्यः क्रिमस्य चतुरश्रे ॥ १६ ॥

परिघोदरस्तु दण्डात्रि इत्यष्ठं शतत्रयं दृष्टम् ।
नवपञ्चगुणो व्यासो नेमिक्षेत्रस्य किं गणितम् ॥ १७ ॥

हस्तौ दृौ विष्कम्भः पृष्ठेऽष्टाषष्टिरिह च सन्दृष्टाः ।
उदरे तु द्वात्रिंशद्वालेन्दोः कि फलं कथय ॥ १८ ॥


' * The reading in both B and V is fत्रंशातिः ; but as this is erroneour it it
sorrooted into त्रिंशदिह so as to meets the requirements of the metre also .
• B reads देक for त्प्रति .