पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः

क्षेत्रगणितव्यवहारः

सिद्धेभ्यो निष्ठितायैभ्यो वरिष्ठेभ्यः कृतादरः ।
अभिप्रेतार्थसिद्ध्यर्थं नमस्कुर्वे पुनः पुनः ॥ १ ॥

इतः परं क्षेत्रगणितं नाम षष्ठगणितमुदाहरिष्यामः । तद्यथा —-

क्षेत्रं जिनप्रणीतं फलाश्रयाद्वयावहारिकं सूक्ष्ममिति ।
भेदाद् द्विधा विचिन्त्य व्यवहारं स्पष्टमेतदभिधास्ये ॥ २ ॥

त्रिभुजचतुर्भुजवृत्तक्षेत्राणि स्वस्वभेदभिन्नानि ।
गणितार्णवपारगतैराचार्यैस्सम्यगुक्तानि ॥ ३ ॥

त्रिभुजं त्रिधा विभिन्नं चतुर्भुजं पञ्चधाष्टधा वृत्तम् ।
अवशेषक्षेत्राणि ह्येतेषां भेदभिन्नानि ॥ ४ ॥

त्रिभुजं तु समं द्विसमं विषमं चतुरश्रमपि समं भवति ।
द्विद्विसमं द्विसमं स्यात्रिसमं विषमं बुधाः प्राहुः ॥ ५ ॥

समवृत्तमर्धवृत्तं चायतवृत्तं च कम्बुकावृत्तम् ।
निम्नोन्नतं च वृत्तं बहिरन्तश्चक्रवालवृत्तं च ॥ ६ ॥

व्यावहारिकगणितम् ।

त्रिभुजचतुर्भुजक्षेत्रफलानयनसूत्रम्--

त्रिभुजचतुर्भुजबाहुप्रतिबाहुसमासदलहतं गणितम् ।
नेमेर्भुजयुत्यर्धं व्यासगुणं तत्फलार्धमिह बालेन्दोः ॥ ७ ॥

अत्रोद्देशकः ।

त्रिभुजक्षेत्रस्याष्टौ बाहुप्रतिवाहुभूमयो दण्डाः ।
तद्व्यावहारिकफलं गणयित्वाचक्ष्व मे शीघ्रम् ॥ ८ ॥