पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

76 गणितसारसङ्ग्रहः॒

प्रथमस्यांशत्रितयं त्रिगुणोत्तरतश्च पञ्चभिर्भक्तम् ।
दीनाराणां त्रिशतं त्रिषष्टिसहितं क एकांशः ॥ ८१(१/२) ॥

आदाय चाम्बुजानि प्रविश्य सङ्कावकोऽथ जिननिलयम् ।
पूजां चकार भक्त्या पूजावैभ्यो जिनेन्द्रेभ्यः ॥ ८२(१/२) ॥

वृषभाय चतुर्थाशं षष्ठांशं शिष्टपाधेय ।
द्वादशमथ जिनपतये व्यंशं मुनिसुत्रताय ददौ ॥ ८३(१/२) ॥

नष्टाष्टकर्मणे जगदिष्टायारिष्टनेमयेऽष्टांशम ।
षष्ठन्नचतुर्भागं भक्त्या जिनशान्तये प्रददौ ॥ ८४(१/२) ॥

कमलान्यशीतिमिश्राण्यायातान्यथ शतानि चत्वारि ।
कुसुमानां आगाख्यं कथय प्रक्षेपकाख्यकरणेन ॥ ८५(१/२) ॥

चत्वारि शतानि सरवे युतान्यशीत्या नरैर्विभक्तानि ।
पञ्चभिराचक्ष्व त्वं द्वित्रिचतुःपञ्चषणितैः ॥ ८६(१/२) ॥

इष्टगुणफलानयनसूत्रम्--

भक्तं शेषेथूलं गुणगुणितं तेन योजितं प्रक्षेपम् ।
तद्द्रव्यं मूल्यन्नं क्षेपविभक्तं हि मूल्यं स्यात् ॥ ८७(१/२) ॥

अस्मिन्नर्थे पुनरपि सूत्रम् --

फलगुणकारैर्हत्वा पणान् फलैरेव आगमादाय ।
प्रक्षेपके गुणास्स्युस्त्रैराशिकतः फलं वदेन्मतिमान् ॥ ८८(१/२) ॥

अस्मिन्नर्थे पुनराप सूत्रम्--

स्वफलहूताः स्वगुणन्नाः पणास्तु तैर्भवति पूर्ववच्छेषः।
इष्टफलं निर्दिष्टं त्रैराशिकसाधितं सम्यक् ॥ ८९(१/२) ॥