पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 75

किं तद्धिः का स्यात् कालस्तदृणस्य मौक्षिकों भवति ॥ ७३(१/२)॥

केनापि संप्रयुक्ताशुतिः पञ्चकशतप्रयोगेण ॥
अष्टाद्यष्टोत्तरतस्तदशीत्यष्टांशगच्छेन ।
मूलधनं दत्वाष्टाद्यष्टोत्तरतो धनस्य मासार्धात् ॥ । ७५ ॥

लुङि प्रादान्मूलं वृद्धश्च विमुक्तिकालश्च ।
एषां परिमाणं किं विगणय्य सर्वे ममाचक्ष्व ॥ ७६ ॥

एकीकरणसूत्रम्--

वृद्धिसमासं विभजेन्मासफील्येन लब्धमिष्टः कालः ।
कालप्रमाणगुणितस्तादष्टकालेन सम्भक्तः ।
वृद्धिसमासेन हतो मूलसमासेन भाजितो वृद्धिः ॥ ७७(१/२ )॥

अत्रोद्देशकः ।

युका चतुश्शतीह द्विकत्रिकपञ्चकचतुषशतेन ।
मासाः पञ्च चतुर्दित्रयः प्रयोगैककालः कः ॥ ७८(१/२) ॥

इति मिश्रकव्यवहारे वृद्धिविधानं समाप्तम् ॥

प्रक्षेपककुटीकारः ॥

इतः परं मिश्रकव्यवहारे प्रक्षेपककुद्वीकारगणितं व्याख्यास्यामः ।

प्रक्षेपककरणमिदं सवर्गविच्छेदनांशयुतिहृतमिश्रः ।
प्रक्षेपकगुणकारः कुटीकारो बुधैस्समुद्दिष्टम् ॥ ७९ (१/२)॥

अत्रोद्देशकः ।

द्वित्रिचतुष्षड्भागैर्विभाज्यते द्विगुणषष्टिरिह हेम्नाम ।
भृत्येभ्यो हि चतुभ्य गणकाचक्ष्वाशु मे भागान् ।। ८०(१/२) ॥

8-A