पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

68 गणितसारसङ्ग्रहः

अत्रोद्देशकः ।

पधकशतप्रयोगे द्वादशमासैर्घनं प्रयुक्ते चेत् ।
साष्टा चत्वारिंशन्मिथं तन्मूलठी के ॥ २२ ॥

पुनरपि मूलचडिमिश्रावभागसूत्रम् –

इच्छाकालफलग्नं स्वकालमूलेन भाजितं सैकम् ।
सम्मिश्रस्य विभक्तं लब्धं मूलं विजानीयात् ॥ २३ ॥

अत्रोद्देशकः ।

सार्धद्विशतकयोगे मासचतुषेण किमपि धनमेकः ।
दत्वा मित्रं लभते क मूल्यं स्यात् त्रयस्त्रिशत् ॥ २४ ॥

कालवृद्धिमिश्रविभागानयनसूत्रम्--

मूलं स्वकालगुणितं स्वफलेच्छाभ्यां हृतं ततः कृत्वा।
सक तेनाप्तस्य च मिश्रस्य फलं हेि बुद्धिः स्यात् ।। २५॥

अत्रोद्देशकः ।

पञ्चकशतप्रयोगे फलार्थना योजितैव धनधाष्टिः ।
कालः स्ववृद्धिसहितो विंशतिरत्रापि कः कालः ॥ २६ ॥

अर्धत्रिकसप्तत्यः साधया योगयोजितं मूलम् ।
पञ्चोत्तरसप्तशतं मिश्रमशीतिः स्वकालवृद्योर्हि ॥ २७ ॥

व्यर्थचतुष्टाशीत्या युक्ता मासद्वयेन सधेन ।
मूलं चतुश्शतं षट्त्रंशन्मित्रं हि कालवृध्द्योर्हि ॥ २८ ॥

मूलकालांमिश्रवभागानयनसूत्रम् --

स्वफलोद्धृतप्रमाणं कालचतुर्वेडिताडितं शोध्यम् ।
मिश्रकृतस्तन्मूलं मिश्रे क्रियते तु सङ्क्रमणम् ॥२९॥