दिवसानुवृत्तो निसः।
पक्षमाससंवत्सरलामो लाभः ।
691
तयोरुत्पन्नो नित्योत्यादिको लाभोत्पादिक इति' ।
व्ययसंजातादायव्ययविशुद्धा नीवी प्राप्ता चानुवृत्ता चेति ।
एव कुर्यात्समुदयं वृद्धि चायस्य दर्शयेत् ।
हृास व्ययस्य च प्राज्ञस्साधयेच्च विपर्ययम् ।।
इत्यध्यक्षप्रचारे समाहर्तृसमुदयप्रस्थापनं षष्ठोऽध्याय
आदित सप्तविशा.
२५. प्रक. अक्षपटले गाणनिक्याधिकारः.
694 अक्षपटलमध्यक्षः प्रत्यङ्मुखमुदङ्मुखं वा विभक्तोपस्थानं
निवन्धपुस्तकस्थानं कारयेत् ।
तत्राधिकरणानां.सङ्ख्यां, प्रचारसञ्जाताग्रं कर्मान्तानां द्रव्य-
प्रयोगे वृद्विक्षयव्ययप्रयामव्याजीयोगस्थानवेतनावेष्टिप्रमाणं, र
त्नसारफल्गुकुप्यानामर्घप्रतिवर्णकप्रतिमानमानोन्मानावामानभा -
ण्डं देशग्रामजातिकुलसङ्घातानां धर्मव्यवहारचरित्रसंस्थान, रा-
जोपजीविनां प्रग्रहमदेशभोगपरिहारभक्तवेतनलाभं, राज्ञश्च पन्नी-
पुत्राणां रत्नभूमिलाभनिर्देशो 'त्पातिकप्रतीकारलाभ, मित्रामित्रा-
णां च सन्धिविक्रमप्रदानादानानि', निबन्धपुस्तकस्थं कारयेत् ।
। इति व्ययः, साता. 2 प्राइमुख. 3 निर्देशौ. 4 दान,