पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५ प्रक.
68
अक्षपटले नागनिक्याधिकार


 ततस्सर्वाधिकरणानां करणीयं सिद्धं शेषमायव्ययौ नीवी मुपस्थानं प्रचारचरित्रसंस्थानं च निबन्धन प्रयच्छेत् । उत्त ममध्यमावरेषु च कर्मसु तज्जातिकमध्यक्षं कुर्यात् ।
 समुदायिकेष्ववक्लूप्तिकं व्ययमुपहत्य राजाऽनुतप्येत ।
 सहग्राहिणः प्रतिभुवः कर्मोपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्छेदं वहेयुः ।
 त्रिशतं चतुःपञ्चाशच्चाहोरात्राणां कर्म संवत्सरः । तमा- पाढीपर्यवसानभूनं पूर्ण वा दद्यात् । करणाधिष्ठितमधिमा- सकं कुर्यात् ।
 अपसर्वाधिष्ठितं च प्रचारं प्रचारचरित्रसंस्थानान्यनुपलभ- मानो हि प्रकृतस्समुदयमज्ञानेन परिहापयति----उत्थानक्लेशा- सहत्वादालस्येन, शब्दादिष्विन्द्रियार्थेषु प्रमादेन, सङ्क्रोशा धर्मानर्थभीरुर्भयेन, कार्यार्थिष्वनुग्रहबुद्धिः कामेन, हिंसाबुद्धिः कोपेन, विद्याद्रव्यवकल्लभाषाश्रयादर्पेण, तुलामानतर्कगणिका- न्तरोपधानाल्लोमेन ।
 तेषां आनुपूर्व्या “यावानर्थोपघात. तावानेकोत्तरो दण्डः" इति मानवाः ।
 * सर्वत्राष्टगुण " इति पाराशराः ।
 "दशगुणाः" इति बार्हस्पसाः ।।
 "विंशतिगुणः" इत्यौशनसाः ॥
 “यथाऽपराधम्" इति कौटिल्यः॥