444 6 नादेयपर्वतानूपसारसानां च हस्तिनामश्वानां च यथास्वमिष्टा युद्धभूमयः कालाश्च । समा स्थिराभिकाशा निरुत्सातिन्यचक्रखुराऽनक्षग्राहिणी अवृक्षगुल्मप्रतती स्तम्भकेदारश्वभ्रवल्मीकसिकतामङ्गभङ्गुरा द- रणहीना च रथभूमि ।
हस्त्यश्वयोमनुष्याणां च समे विषमे हिता युद्धे निवेशे च।
अण्वश्मवृक्षा स्वलङ्घ[१]नीयश्वभ्रा मन्ददरणदोषा चाश्वभूमिः।
स्थूलस्थाण्वश्मवृक्षप्रतती वल्मीकगुल्मा पदातिभूमिः।
गम्यशैलविषमा निम्नविषमा मर्दनीयवृक्षा छेदनीयप्रतती
पङ्कभङ्गुरा दरण होना च हस्तिभूमिः ।
अकण्टकिन्यवहुविषमा प्रत्यासारवतीति पदातीनामतिशयः।
द्विगुणप्रत्यासारा कर्दमोदकखञ्जनहीना निश्शर्करेति वाजि-
नामतिशयः। पांसुकर्दमोदकनळशराश्रयवती[२] श्वदंष्ट्रहीना महावृक्षशाखा- घातवियुक्तति[३] हस्तिनामातीशयः । तोयाशयाश्रयवती निरुत्खातिनी केदारहीना व्यावर्तनसम- र्थेति रथानामतिशयः। उक्ता सर्वेषां भूमिः। एतया सर्वबलनिवेशा युद्धानि च व्याख्यातानि भवन्ति । 445 11 भूमिवासवननिचयो विषमतायतर्थिवात[४] रश्मिग्रहणं, वीव-