ति, सोऽतिसंधत्ते शून्यमूलो ह्यस्य सुकरो भवति, नैकदे-
शबलप्रयातः कृतपाणिप्रनिविधान इति ।
बलोपादानसाम्ये यश्चलामित्रं प्रयातस्य पार्ष्णि गृह्णाति,
सोतिसंधत्ते चलामित्रं प्रयातो हि सुखेनावाप्तासिद्धिः पा.
र्ष्णिग्राहमुच्छिन्द्यान्न स्थितामित्रं प्रयातोऽसौ हि दुर्गप्रतिहतः
पार्ष्णिग्राहे च प्रतिनिवृत्तस्थितेनामित्रेणावगृह्यते ।
तेन पूर्वे व्याख्याताः ।
शत्रुसाम्ये यो धार्मिकाभियोगिनो पार्ष्णिं गृह्णाति सो-
तिसंधत्ते । धार्मिकाभियोगी हि स्वेषां च द्वेष्यो भवति ।
अधार्मिकाभियोगी सम्प्रियः ।
तेन मूलहरतादात्विककदर्याभियोगिनां पाणिग्रहणं व्या-
ख्यातम् ।
मित्राभियोगिनोः पार्ष्णिग्रहणे त एव हेतवः ।
मित्रमामित्रं चाभियुञ्जानयोर्यों मित्रभियागिनः पार्ष्णि गृह्णा-
ति सोऽतिसंधत्ते । मित्राभियोगी हि सुख्नेनावाप्तसन्धिः
पार्ष्णिग्राहमुच्छिन्द्यात् । सुकरो हि मित्रेण सन्धिर्नामित्रेणेति ।
मित्रममित्रं चोद्धरतोर्यो मित्रोद्धारिणः पार्ष्णि गृह्णाति,
सोऽतिसंधत्ते। वृद्धामित्रो ह्यमित्रोद्धारी पार्ष्णिग्राहमुच्छिन्द्या-
न्नेतरः स्वपक्षोपघाती।
तयोरलब्धलाभावगमने यस्यामित्रो महतो लाभात् वियु-