पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७ प्रक]
303
पाणिग्राहचिन्ता

 क्तः क्षयव्ययाधिको वा, म पार्ष्णिग्राहोतिसंधत्ते ! लब्ध- 370*5
लाभावगमने यस्यामित्रो लाभेन शक्तया हीनः, स पा.
र्ष्णिग्राहोऽतिसधत्ते ।

 यस्य वा यातव्यः शत्रोविग्रहापकारस्समर्थस्स्यात्पार्ष्णिग्रा-
हयोरपि यश्शङ्कयारम्भवलोपादानाधिकस्स्थितशत्रुःपार्श्वस्थायी
वा सोतिसवत्ते । पार्श्वस्थायी हि यातव्याभिसारो मूलाबा-
धकश्च भवति । मूलाबाधक एव पश्चात्स्थायी ।

 

पार्ष्णिग्राहास्त्रयो ज्ञेयाश्शत्रोश्चेष्टानिरोधकाः ।
सामन्तात्पृष्ठतो वर्ग' प्रतिवेशौ च पार्श्वयोः ।।

 

अरेर्नेतुश्च मध्यस्थो दुर्बलोऽन्तार्धरुच्यते ।
प्रतिघातो बलवतो दुर्गाटव्यवसारवान् ॥

 मध्यमं त्वरिविजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णि गृह्णतो
लब्धलाभावगमने यो मध्यमं मित्राद्वियोजयति, अमित्रं च
मित्रमाप्नोति, सोतिसंधत्ते । सन्धेयश्च शत्रुरुपकुर्वाणो न मित्रं
मित्राभावादुत्क्रान्तम् ।

 तेनोदासीनलिप्सा व्याख्याता ।

 पार्ष्णिग्रहणाभियानयोस्तु मन्त्रयुद्धादभ्युञ्चयः ।

 "व्यायामयुद्धे हि क्षयव्ययाभ्यां उभयोरवृद्धिः। जित्वाऽपि
हि क्षीणदण्डकोशः पराजितो भवति" इत्याचार्याः ।