पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
160
३ अधि ८ अध्या.
धर्मस्थीयम्

६१ प्रक. गृहवास्तुकम्.


 सामन्तप्रत्यया वास्तुविवादाः। गृहं क्षे[१]त्रमारामस्सेतुबन्ध स्तटाकमाधारो वा वास्तुः । कर्णकीलायससम्बन्धोऽनुगृहं सेतुः । यथासेतुभोगं वेश्म कारयेत् ॥
 अभूतं[२] वा परकीयाद[३] विक्रम्य ॥
 द्वावरबी त्रिपदीं वा पादे[४] वन्धं कारयेत् ! अवस्कर[५] भ्रम मुदपानं पानगृहोचितमन्यत्र मूतिकाकूपादानिर्दशाहादिति !
तस्यातिकमे पूर्वस्साहसदण्ड ॥
 तेन बन्धना[६] वधातनकृत कल्याणकृत्येष्वाचामोदकमार्गाश्च व्याख्याता ॥
 त्रिपदीपतिक्रान्तमत्यर्ध[७]मरत्नि वा प्रवेश्य गाढप्रसृतमुदक- मार्ग प्रस्रवणं प्रघातं वा कारयेत् । तस्यातिक्रमे चतुष्पञ्चा- शात्पणो दण्डः ॥
 एकपदी[८] प्रतिक्रान्तमरत्निं वा चक्रि[९]चतुष्पदस्थानमग्निष्ठं उदञजरस्थानं रोचनी कुट्टनीं वा कारयेत् । तस्मातिक्रमे चतु- र्विंशतिपणो दण्डः ॥
 सर्ववास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्त. रिका त्रिपदी वा । तयोश्चतुरङ्गुलं निव्रा[१०]न्तरं समारूढकं वा । किष्कुमात्रमाणिद्वारमन्तरिकायां खण्डफुल्लार्धमसम्पातं कार-

येत् ।



  1. त्गृहक्षेत्र
  2. अद्भुत
  3. परकुज्याद.
  4. दंश
  5. रं.
  6. तेनेन्धना,
  7. मध्यर्ध
  8. पढ़ीं
  9. चक्र.
  10. नीमा.