पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१ प्रेक.]
167
गृहवास्तुकम्

प्रकाशार्थमल्पमूर्ध्वं वातायनं कारयेत् । [१]सम्भूय वा गृहस्वा- मिनो यथेष्टं कारयेयुरनिष्टं वारयेयुः ॥
 वानलट्याश्चोर्ध्वमाहार्यभागकटप्रच्छन्नमवमद्भक्तिं[२] वा कार येत् वर्षावाधा[३]भयात् । तस्यातिक्रमे पूर्वस्साहसदण्ड ॥
 प्रतिलोमद्रा[४]रवातायनबाधायां च अन्यत्र राजमार्गर- थ्याभ्यः ॥
 स्वातयोवान[५]प्रणालीनिश्रेण्यवस्कर[६]भागैर्बहिर्वाधायां भोग- निग्रहे च परकुड्यमुदकेनोपघ्ननो द्वादशपणो दण्ड । मूत्र- पुरीषोपघाते द्विगुण ।।
 प्रणाळीमोक्षो वर्षति । अन्यथा द्वादशपणो दण्डः ॥
प्रतिषिद्धस्य च बसतो निरस्यतश्चावक्रयणं[७]अन्यत्र पारु ष्यस्तेयसाहससङ्गहणमिथ्याभोगेभ्यः ।।
 स्वयमभिप्रस्थितो वर्षावक्रयशेषं दद्यात् ।।
सामान्ये वेश्मनि साहाय्यमप्रयच्छतस्सामान्यमुपरुन्धतो भोगं च गृहे[८] द्वादशपणो दण्डः। विनाशयतस्तद्विगुणः ॥

कोष्ठकाङ्गणवर्जानामग्निकुट्टनशालयोः ।
विवृताना च सर्वेषां सामान्ये भोग इष्यते ॥

इति धर्मस्थीये वास्तुके गृहवास्तुकं अष्टमोऽध्याय

आदित पञ्चषष्ठिरध्यायः




  1. तदवसिते वेश्मनि छादयेत् । सम्भूय
  2. नमवमर्शभित्ति
  3. वर्षबाध.
  4. मावा
  5. खातसोपान
  6. वसर.
  7. मिण
  8. भोगनिहे.