सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
कुवलयानन्दः । [व्यतिरेकालंकारः २०


तयोः साम्ये पर्यवस्यति । द्वितीयनिदर्शनायामप्यन्यधर्मोऽन्यत्रासंभवन्धर्मिणोः साम्ये पर्यवस्यति । तृतीयनिदर्शनायां तु स्वक्रियया परान्प्रति सद- सदर्थवोधन संभवदेव समतां गीकरोति । बोधयन् गृहमेधिन इत्यादी हि भारीषोऽनिरध्यापयतीतिवत्समर्याचरणे णिचः प्रयोगः । ततश्च यथा कारीपोऽझिः शीतापनयनेन बटूनध्ययनसमर्थान्करोति एवं वर्ण्यमानः पर्वतः स्वयमुपमानमावेन गृहमेधिन उक्तबोधनसमर्थान्कर्तु क्षमते। यथायं पर्वतः समागत रविं शिरसा संभावयत्येवं गृहमेधी समागतं सन्तमुचितपूजया संभावबेदिति । अतः संभवति बोधनसंबन्ध इति ॥५५॥५६॥


व्यतिरेकालंकारः२०

व्यतिरेको विशेषश्चेदुपमानोपमेययोः।
शैला इबोन्नताः सन्तः किंतु प्रकृतिकोमलाः॥ ५७ ॥

अयमुपमेयाधिक्यपर्यवसायी व्यतिरेकः । यथावर---

पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर।
मूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥

तग्न्यूनत्वपर्यवसायी यथा---

रक्त्तस्त्वन नवपल्लरहमपि क्ष्लाव्यैः प्रियाया गुणै-
 स्त्वामायान्ति शिलीमुस्वाः स्मरधनुर्मुक्तास्तथा मामपि।


ऋविषये केचिदित्यस्येति व्यवहरन्तीत्यनेनान्वयः ॥ धर्मिणोरिति ॥ धर्मयोः साम्यमात्रेण चमत्कारानिष्पत्तत्तत्कृतबिम्दप्रतिबिम्बभावेन धर्मिणोः साम्याबगतिरिति भावः ॥ गभीकरोतीति ॥ स्खविशेषणत्वेन स्वीकरोतीत्यर्थः । दृष्टान्ततया बोधनस्यैव तत्र विवक्षितत्नात् । एतदेवोपपादयति --- बोधयन्नित्यादिना । करीषं शुष्कगोमयं तस्यायंकारीषः। समर्थांचरणे समर्थकरणे। सम्मोत्पादन इति यावत् । भावप्राधान्यात् । उपमानभावेन दृष्टान्तत्वेन । एवं प्रदर्शिते निदर्शनात्रये निदर्शनापदप्रवृत्तिनिमित्तस्यैकस्याभावान्नानार्थ एव" निदर्शनाशब्द इति बोध्यम् ॥५५॥५६॥ इति निदर्शनालंकारप्रकरणम् ॥१९॥ व्यतिरेक लक्षयति–व्यतिरेक इति। विशेषो वैलक्षण्यम् । उपमेयस्याधिक्यमुत्कर्षःपल्लवत इति ॥ पञ्चम्यर्थे तसिल् । कल्पतरोः पल्लवतः पल्लबादेश वक्ष्यमाणस्ते तव करस्य विशेष इति संबन्धः। एकः पल्लवः परो हस्तः कले राधेचं तिरस्कुरुते । दानातिशयेनेति भावः । अत्रोपमेयस्य करस्योत्कर्षः। पूर्वोदाहरणे उन्नतत्वेनौपम्यं ॥ शाब्दमिह तु रक्तवत्कोमलादिप्रयुक्त्तं तद्भ्यमिति भेदः ॥ तन्न्यूनत्वेति ॥ उपमेयन्यूनत्वेत्यर्थः ॥ रक्तस्त्वमिति ॥ अशोकवृक्षं प्रति विरहिणः कस्यचिदुक्तिः । हे अशोक, आवयोः सर्व तुल्यं समानम्। अहं केवलं धात्रा विघात्रा सशोकः शोकसहितः कृतः, त्वं तु शोकरहित इत्य-