पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आवृत्तिदीपकालंकारः १६.] अलंकारचन्द्रिकासहितः। ५१ दप्रस्तुतमिति विशेषाग्रहणात्सवोद्देशेनैव धर्मान्वय इति विशेषः । अर्य चा- नयोरपरो विशेषः । उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेऽप्यन्त्राप्रस्तुतमु- पमानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावस्तत्र तु विशेषाग्रह. णादैच्छिकः स इति ॥१८॥ आवृत्तिदीपकालंकार १६ त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् । वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ॥ ४९ ।। उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोगमाः। माधन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः ॥५०॥ दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्यार्थस्योभयोर्वा वृत्तौ त्रि- विधमावृत्तिदीपकम् । क्रमेणार्धत्रयेणोदाहरणानि दर्शितानि । यथावा--- उत्कण्ठयति मेघानां माला वर्ग कलापिनाम् । युवा चोत्कण्ठयत्यय मानसं मकरध्वजः॥ थिविषये असनोपकारिखमित्यर्थः । तथाच खन्मते तस्य प्रासनिकत्वं न स्यादि- ति भावः । इदमुपलक्षणम् । जामातृविषये प्रासनिकलापत्तिरपि बोध्या । एतदेव तुल्ययोगितातो भेदकमित्याह-तुल्ययोगितायां त्विति ॥ नन्हे- श्यखानुद्देश्यलयोश्चमत्काराप्रयोजकलानालंकारभेदप्रयोजकत्वं युक्तमित्यखरसा- दाह-अयं चेति ॥ अयं वक्ष्यमाणः । अनयोदीपकतुल्ययोगितयोः । अत्र दीपके । उपमानोपमेयभाव इत्यनन्तरं गम्य इति शेषः । तत्र तुल्ययोगितायों विशेषाग्रहणात्प्रस्तुताप्रस्तुतखरूपव्यवस्थापकाभावादैच्छिकोऽव्यवस्थितः स उप- मानोपमेयभावः॥ नव्यास्तु-नैतावतापि तुल्ययोगितातो दीपकस्य पृथग्भाव उ- चितः । धर्मस्य सकृद्धृत्तिलमूलाया विच्छित्तेरविशेषात् । अन्यथा तुल्ययोगिता- यामपि धामणां केवलप्रकृतखस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकार- द्वैतापत्तेः । तस्मात्तुल्ययोगिताया एव वैविध्यमुचितमित्याहः ॥ ४८॥ इति दीपकप्रकरणम् ॥ १५॥ . त्रिविधमिति ॥ दीपकस्यावृत्तावावृत्तिदीपकं भवेत्तच्च त्रिविधमित्यर्थः ।। वर्षतीति ॥ शर्वरी रात्रिः वर्ष वत्सर इवाचरतीत्यर्थः। कदम्बानि कदम्बक- सुमानि, उन्मीलन्ति विकसन्ति, कुटजोगमाः कुटजकलिकाः स्फुटन्ति विकसन्ति, तृप्ताश्चातका माद्यन्ति मत्ता भवन्ति, शिखावला मयुराश्च माद्यन्तीत्यन्वयः । त्रै- विध्यमुपपादयन्नेव व्याचष्टे-दीपकस्येति ॥ क्रमेणेति ॥ आद्येऽर्थे वर्षती- ति शब्दावृत्तिः । अलंकारसंपादकत्वाच्च न कथितपदत्वं दोषः । द्वितीये विकास- रूपस्मार्थस्यावृत्तिः । उन्मीलन्ति स्फुटन्तीति शब्दभेदेन तस्मैव बोधनात् । तू. तीये तु योरावृत्तिः स्फुटैवेति ॥ उत्कण्ठयन्तीति ॥ मेघानां माला पति AMARE