पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

--- ३२ कुवलयानन्दः। [उत्प्रेक्षालंकारः १२

                 लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥ ३३ ॥
                 रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद्रुवम् ।
                 त्वन्मुखामेच्छया नूनं पद्मैर्वैरायते शशी ॥३४॥
                 मध्यः किं कुचयोधृत्यै बद्धः कनकदामभिः ।
                 प्रायोऽञ्जनं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ३५॥

अन्यधर्मसंबन्धनिमित्तेनान्यस्यान्यतादात्म्यसंभावनमुत्प्रेक्षा। सा वस्तु- हेतुफलात्मतागोचरत्वेन त्रिविधा । अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्य- संभावना प्रथमा स्वरूपोत्प्रेक्षेत्युच्यते। अहेतोर्हेतुभावेनाफलस्य फलत्वेनो- इत्यन्वयः । कोकस्य चक्रवाकस्य स्त्री कोकी तस्या विरहरूपाणां शुष्मणाभग्निनां संबन्धिनं धूमसमूहमित्यर्थः ॥ लिम्पतीवेति ॥ अत्र तम इति नभ इति च कर्तृपदम् । रक्तावित्यादि दयितांप्रति नायकस्योक्तिः । तव मृदुलौ सुकुमारावङ्घ्री चरगौ ध्रुवं भुवि विक्षेपणाद्धेतोः रक्तवर्णाविति ॥ त्वन्मुखेति ॥ पद्मगतायास्त्व- न्मुखकान्तरिच्छया । हेतुनेत्यर्थः ॥ वैरायत इति ॥ वैरं करोतीत्यर्थे 'शब्द- वैरकलहाभ्रकण्वमेधेभ्यः करणे' इति क्यङ् ॥ मध्य इति ॥ मध्यभागः कुच- योर्धुत्यै धारणार्थं कनकस्य दामभी रज्जुभिरिति निगीर्याध्यवसानरूपातिशयोक्त्या वलिभिर्बद्धः किमित्यर्थः॥ प्राय इति ॥ अब्जं कर्तृ । प्रायो बहुधा त्वच्चरणेन सहैक्यं प्राप्तुं तोये जले तपस्यति । तपश्चरतीत्यर्थः । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'तपसः परस्मैपदं च' इति परस्मैपदम् । लक्षणं परि- कुरुते--अन्यधर्मेति ॥ अन्यस्य विषयिणो यो धर्मस्तत्संबन्धरूपेण निमित्ते- नान्यस्यान्यविषयकमन्यस्य विषयिणस्तादात्म्येन संभावनमित्यर्थः। अन्यस्येति । षष्ठयर्थो विषयता घर्मितारूपा । विषयिण इति षष्टयर्थस्तु विशेषणतारूपा विषयता। अन्यत्वेनोत्कीर्तनं च संभावनाया आहार्यतासूचनाय । तथाच विषयि- निष्ठधर्मसंबन्धप्रयुक्तं विषयधर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहार्यसंभा- वनमुत्प्रेक्षेति पर्यवसितम् । तनिष्ठधर्मसंबन्धप्रयुक्तमाहार्यतत्संभावनमिति तु निष्कर्षः । इतरांञ्चस्याव्यावर्तकतया स्वरूपकथनमात्रपरत्वात् । मुखं चन्द्रं मन्य इत्युत्प्रेक्षायां चन्द्रनिष्ठाह्रादकत्वादिधर्मसंबन्धप्रयुक्तं मुखे चन्द्रसंभावनमाहार्यम- स्तीति लक्षणसमन्वयः । बाधाद्यमावदशायां तु जायमाना मुखादौ चन्द्रादि- संभावनोत्प्रेक्षेति तद्वारणायाहार्येति । एतेन 'बिरक्तसन्ध्यापरुषं पुरस्ताद्यथा रजः पार्थिवमुज्विहीते। शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः॥' इत्यत्र रजोमरोद्गमनरूपससैन्यप्रत्युद्गन्तृधर्मसंबन्धप्रयुक्तायां भरते तत्संभावना- यामपि नातिव्याप्तिः । तस्या अनाहर्यत्रात् 'संभावनं यदीत्थं स्थादित्यूहोऽन्य- ख सिद्धये इति वक्ष्यमाणसंभावनालंकारविषये 'यदि शेषो भवेद्वक्ता कथिताः खुगुर्णास्तव' इत्यादावत्तिव्याप्तिवारणाय प्रयुक्तान्तम् । सर्वातिशायिसौन्दर्यं १ मध्ये वैरायत्ते. tan adhisartane mammini----- KENNERRIHARANTERRIEnternetrimmor