पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ कुवलयानन्दः । [अपह्रुत्यलंकारः ११ कासोष्पैक्षितधर्मान्तरस्यापि निह्नवः शुद्धापह्रुतिः । यथा चन्द्रे वियन्नदीपुण्ढ- रीकत्वारोपफलकस्तदीयधर्मस्य चन्द्रत्वस्थापह्न्वः॥ यथावा-

          अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
             सारङ्गं कतिचिञ्च संजगदिरे भूच्छायमैच्छन्परे। .
          इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते ।
             तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥
  अत्रौव्पेक्षिकधर्माणामप्यपह्नवः परपक्षत्वोपन्यासादर्थसिद्धः॥२६॥
           स एव युक्तिपूर्वश्चेदुच्यते हेत्वपह्नुद्धतिः।
           नेन्दुस्तीत्रो न निश्यर्कः सिन्धोरौर्वोऽयमुत्थितः ॥२७॥

अत्र चन्द्र एव तीव्रत्वनैशत्वयुक्तिभ्यां चन्द्रत्वसूर्यत्वापह्नवो वडवानलत्वा- रोपार्थः॥ अथावा-

             मन्धानभूमिधरमूलशिलासहस्र- .
             संघट्टनव्रणकिणः स्फुरतीन्दुमध्ये।

पुण्डरीकेति । 'पुण्डरीकं सिताम्भोजम्' इत्यमरः । एवंच सरोरुहपदं विशेष्य- परमिति भावः ॥ अङ्कमिति ॥ इन्दौ दलितस्य स्फुटितस्येन्द्रनीलमणेः शकल- वच्छयामं यद्दरीदृश्यते तत्केऽपि कवयोऽङ्कं कलङ्कं शशङ्किरे शकितवन्तः, परेऽन्ये जलनिधेः पङ्कं मेनिरे, कतिचित्पुनः सारङ्गं संजगदिरे अब्रुवन्, परे इतरे भुवो भूमेश्छाया भूच्छाचं ऐच्छन् । 'विभाषा सेनासुराच्छाया-'इत्यादिना क्लीबत्वम्। वयं तु सान्द्रं घनं निशि रात्रौ पीतम् अतएव कुक्षिस्थमन्धतमसं गाढ- ध्वान्तमाचक्ष्महे ब्रूमह इत्यन्वयः। औत्प्रेक्षिका उत्प्रेक्षामात्रविषयाः कलङ्कादयः। अपिना स्वाभाविकस्य भूच्छायत्वस्य समुच्चयोऽर्थसिद्ध इति । 'नायं सुधां- शुः' इत्यत्र नेतिशब्दोपात्तत्वाच्छाब्दः । इहतु परमतत्वोत्कीर्तनेन खानमिमत- : स्वसूचनादर्थगम्य इत्यर्थः । एकत्रानेकापहवरूपतयाप्यत्र वैचित्र्यं बोध्यम्॥२६॥ हेत्वपह्रुतिमाह–स एवेति ॥ शुद्धापहव एवेत्यर्थः । युक्तिपूर्व इति॥ योज्यते साध्यमनेनेति युक्तिर्हेतुस्तत्पूर्वस्तत्सहित इत्यर्थः । तथाच शुद्धा- पहवलक्षण एवानुक्कनिमित्त इत्यस्य स्थाने उक्तनिमित्त इत्युक्तौ हेत्वपह्रुतिलक्षणं संपद्यत इति भावः । नेन्दुरित्यादि विरहाकुलोक्तिः। तीव्रो दारुणो यतोऽतो नेन्दुः । निशि रात्रौ सत्त्वान्नार्कः। 'और्वस्तु वाडवो वडवानलः' इत्यमरः ॥ नैशत्वेति॥ निशि भवो नैशस्तत्त्वमित्यर्थः । अत्रापि चन्द्रत्वं खाभाविको धर्मः। सूर्यत्वं त्वौत्प्रेक्षिकमिति बोध्यम् ॥ मन्थानेति ॥ मन्थानो मन्थनदण्डः स चासौ भूमिधरः पर्वतो मन्दरस्तस्य मूलभारो यच्छिलासहस्रं तेन संघ- ट्टनाद्यो त्रणत्तस्य किणश्चिह्नमिन्दुमध्ये स्फुरति प्रकाशते। छाया भूमेः । भृगो हरि(X)(श्चः) शशकः शशः इत्येषा अतिपामराणां मुर्खतमानामुक्तिः। हि यस्मात्तेषां छायादीनां तत्रेन्दुमध्यभागे कथंचिदपि केनापि प्रकारेण प्रसक्तिर्नास्तीत्यन्व्यः।