अपह्रुत्यलंकारः ११ ] अलंकारचन्द्रिकासहितः । २७ |
}}
यत्र क्वचिद्वस्तुनि तदीयधर्मनिह्नवः, अन्यत्र वर्णनीये वस्तुनि तस्य धर्म- स्यारोपार्थः स पर्यस्तापह्रुतिः। यथा चन्द्रे चन्द्रत्वनिह्नवो वर्णनीये मुखे तदा- रोपार्थः ॥ यथावा-
हालाहलो नैव विषं विषं रमा । |
पूर्वोदाहरणे हेतूक्तिनास्ति अत्र तु सास्तीति विशेषः । ततश्च पूर्वापह्नुति- वदत्रापि द्वैविध्यमपि द्र्ष्टव्यम् ॥ २८ ॥</poem>}}}}
“वैशाखमन्थमन्थानसन्थानो मन्थदण्डके।' इत्यमरः ।। नास्तीतीति ॥ इति हेतोरित्यर्थः ॥ २७ ॥ पर्यस्तापह्रुतिमाह-अन्यत्रेति ॥ सः अपह्नवः । तथाच तदारोपार्थस्तस्यापह्नव इति लक्षणम् । निषेधस्य च न स्वाधिकरणे प्रतियोग्या- रोपार्थत्वसंभवो न वा स्वाधिकरणे स्वारोप इयर्थसिद्धमेवारोपस्यान्याधिकरणत्व- मन्यत्रेत्यनेनोक्तम् । अतएव पर्यस्तापह्रुतिरित्युच्यते । पर्यस्ता आरोपविपरीता आरोपव्यधिकरणेति तदर्थात् । नच चन्द्रे चन्द्रनिषेधस्य कथं मुखे तदारोपार्थत्वमिति वाच्यम् । आरोपदार्ढ्यसंपादकत्वेन निषेधस्य तदर्थताया अनुभवसिद्धत्वात्। अतएव दृढारोपरूपकमेवेदं नापह्रुतिरिति प्राचां सिद्धान्तस्तदनुसारेणैव च चित्रमीमांसायां 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्' इत्यपह्रुतिलक्षणमुक्तम्। इह त्वलंकाररत्नाकराद्यनुसारेणायं प्रभेद उपदर्शितसामान्यलक्षणा- भिप्रायेणापह्रुतित्वेनोक्त इति निरवध्यम् ॥ हालाहल इति ॥ हालाहलो बिषं नैव भवति किंतु रमा लक्ष्मीविषम् । जनाः परं केवलमत्रास्मिन्विषये व्यत्यय वैपरीत्यं मन्वतेऽभ्युपगच्छन्ति । कुतस्तत्राह । यस्माच्छिवस्तं हालाहलं निपीय सुखेन जागर्ति । हरिस्तु इमां मां स्पृशन्सन् निद्रया मुह्यति । स्मरन्निति पाठे स्मरन्नपि मुह्यति । किमु स्पृशन्नित्यर्थः । तथाच रमाया विषरूपत्वे मोहज- नकत्वं हेतुः, हालाहलस्य तत्त्वापह्नवे च जागरसुखप्रयोजकत्वमिति बोध्यम् । ‘हालाहलों विषे' इति विश्वः । अत्र स्पृशन्मुह्यतीति कार्यकारणयोः पौर्वापर्यवि- पर्ययरूपातिशयोक्तिरलंकारः । सा हेतूक्तिः । ततश्चेति ॥ हेतूक्तितदनुक्तिरू- | १ ‘पहृतिश्च सा.