पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कुवलयानन्दः । [स्मृतिभ्रान्तिसंदेहाः ८-१० २४

    दिव्यानामपि कृतविस्मयां पुरस्ता-
    दम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
    उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती-
    मस्मार्षीज्जलनिधिमन्थनस्य शौरिः ।।

पूर्वत्र स्मृतिमदुदाहरणे सदृशस्यैव स्मृतिरत्र सदृशलक्ष्मीस्मृतिपूर्वकं तत्संबन्धिनो जलनिधिमन्थनस्यापि स्मृतिरिति भेदः।

   पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः।
   सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥

अत्रान्योन्याविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेषः।

   जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः।
   किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥

पूर्वोदाह्रुतसंदेहोऽप्रसिद्धकोटिकोऽयं तु कल्पितकोटिक इति भेदः ॥२४॥२५॥


जातिविशेषः । भ्रान्तित्वं विशेष्यावृत्तिप्रकारकज्ञानत्वम् । संदेहत्वं तु निश्चयभिन्नत्वे- . सति संभावनाभिन्नज्ञानत्वं पारिभाषिकम् । स्मृतिभ्रान्त्यादिवारणाय सत्यन्तम्। उत्प्रेक्षावारणाय संभावनाभिन्नेति । चमत्कारित्वं पुनरखिलालंकारसाधारणं . लक्षणत्रयेऽपि निवेशनीयम् । तेन स घट इति स्मृताविदं रजतमिति भ्रान्तावयं स्थाणुः पुरुषो वेति संशये नातिप्रसङ्ग इति ध्येयम् । गाहते आकलयति। स्मरवीति यावत् । सादृश्यान्निवध्यमानैरिति चमत्कारित्वोपलक्षकम् । न त्वेतस्यपि स्वातन्त्र्येण लक्षणे प्रवेशः सादृश्यामूलकानामपि स्मृत्यादीनां चमत्कारि- त्वेऽलंकारताया अनिवार्यत्वात् , चमत्कारितैकजीवातुत्वात्तस्याः । अचमत्कारित्वे तु तेनैव वारणमिति व्यर्थ सादृश्यहेतुकत्वविशेषणम् । न चैतदेवोपादीयतां नतु चमत्कारित्विशेषणमिति वाच्यम् । उदाहृतेषु सादृश्यमूलकस्मृत्यादिष्वतिप्रसङ्ग- वारणार्थ तस्यावश्यकत्वादिति संक्षेपः। दिव्यानामिति ॥ माघे जलक्रीडावर्णन- प्रस्तावे पद्यमिदम् । शौरिः श्रीकृष्णोऽम्भस्तो जलादुत्तरन्तीं निर्गच्छन्तीं श्रियमिव श्रीसदृशीं कांचित्पुरस्तादग्रे उद्वीक्ष्य जलनिधिमन्थनस्य अस्मार्षीत्स्मृतवान्। 'अधीगर्थ-' इति कर्मणि षष्ठी । किंभूताम् । दिवि भवा दिव्यास्तेषां देवानामपि सौन्दर्यातिशयेन कृताश्चर्याम् । तथा स्फुरता अरविन्देन कमलेन चारू रमणीयो हस्तो यस्यास्तथाभूताम् । तथा चैवंविधनायिकासदृशलक्ष्मीस्मरणात्तत्सं- बन्धिजलनिधिमन्धनस्मरणमिति भावः । अत्र श्रियमिवेत्युपमायाः स्मृत्यङ्गत्वा- त्तयोरङ्गाङ्गित्वलक्षणः संकरः॥ पलाशेति ॥ वकिमलौहित्यरूपसादृश्याद्भ्रान्तिः । अलिर्भ्रमरः । सोऽपि शुकोऽपि ॥ भ्रान्तिनिबन्धन इति ॥ भ्रान्तिप्रयुक्त इत्यर्थः । जीवनेति। जीवनं जलं प्राणसंयोगश्च । अथवा जीवन्यनेनेति जीवनं धनम् । नम्रा अधोमुखा विनीताश्च । उन्नता ऊर्ध्वमुखा उद्धवाश्च । घटी- १'कुसुमभ्रन्त्या',