पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्मृतिभ्रान्तिसंदेहाः ८-१०]
२३
अलंकारचन्द्रिकासहितः ।

शुद्धो यथा--

अकृशं कुचयोः कृशं विलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे ।।
अधरेऽरुणमाचिरस्तु चित्ते करुणाशालिकपालभागधेयम् ॥ २३ ॥

स्मृतिभ्रान्तिसंदेहालंकाराः ८-१०

स्यात्स्मृतिभ्रान्तिसंदेहैस्तदङ्कालंकृतित्रयम् ।
      पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥ २४ ॥
      अयं प्रमेत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम् ।
      पङ्कजं वा सुधांशुवैत्यस्माकं तु न निर्णयः ॥ २५ ॥

स्मृतिभ्रान्तिसंदेहैः सादृश्यान्निबध्यमानैः स्मृतिभ्रान्तिमान्संदेह इति स्मृत्यादिपदाङ्कितमलंकारत्रयं भवति । तच्च क्रमेणोदाहृतम् ॥ यथावा--


तत्सँग्रहः कृतः । तत्र विषयसप्तमीनिर्दिष्टो विषय इत्युच्यते । अधिकरणसप्तमी- निर्दिष्टत्त्वाश्रयः षष्ट्यादिनिर्दिष्टः संबन्धीति विवेकः । गुरुरित्यस्यार्थकथनं महानिति । 'गुरुर्महति वाच्यवत्' इति विश्वकोशात् । पटुरिति तु तात्पर्यपर्य- वसितार्थकथनम् । पटुर्दक्ष इत्यादीत्यादिना कीर्तिविषयेऽर्जुनो धवल इतिवत्पार्थ इत्यर्थान्तरस्य धनुर्विषये भीष्मो भीषण इतिवद्गाङ्गेय इत्यर्थान्तरस्य च संग्रहः । 'भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचरे' इति विश्वः । क्रोडीकरणादेक- वृन्तगतफलद्वयन्यायेन संग्रहात् ॥ अकृशमिति । कपालिनो हरस्य भागधेयं भाग्यं तत्त्वेनाध्यवसितं पार्वतीस्वरूपं चित्ते अविरस्तु प्रकटीभवत्विति संबन्धः । किंभूतम् । कुचयोः कुचविषये अकृशं स्थूलम् । एवमग्रेऽपि । विलग्नो मध्यः । ‘विलग्नो मध्यलग्नयोः' इति विश्वः । विपुलमायतम् । अधरे अधरोष्ठे अरुण- मारकम् । अरुणाधरमिति पाठस्तु प्रक्रमभङ्गादयुक्तः । चित्ते इति करुणा- शालीत्यत्रापि मध्यमणिन्यायेन संबध्यते । एवम् ‘तुषारास्तापसव्राते तामसेषु च तापिनः। दृगन्तासताडकाशत्रोर्भूयासुर्भम भूतये ॥' इत्यादावधिकरणानेकत्व- प्रयुक्तः 'यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनप- तिर्धनाकाक्षिणाम् । गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥' इत्यादौ संबन्धिमेदप्रयुक्तश्चोल्लेखो द्रष्टव्य इति दिक् ॥ २३ ॥ इत्यलंकारचन्द्रिकायामुल्लेखप्रकरणम् ॥ ७ ॥ | अथ ज्ञानप्राधान्यसाम्यात्स्मृत्यादीनलंकारान् लक्षयति–स्यादिति ॥ स्मृ- तिभ्रान्तिसंदेहैर्व्यवहर्तव्यतया हेतुभूतैस्तदङ्क तेषामङ्कतदङ्कः तदङ्को विद्यतेऽस्मि- स्तथाभूतम् । मत्वर्थियाच्प्रत्ययात् । अङ्कष्चिन्हं संज्ञेति यावत् । तेन तत्संज्ञासंज्ञि- तमित्यर्थः। अलंकृतित्रयं व्यवहारविषयः स्यादिति योजना । एवंच स्मृतित्वभ्रा- न्तित्वसदेहत्वानि त्रीणि लक्षणानि । तत्र स्मृतित्वं तावत्स्मरामीत्यनुभवसाक्षिको


१ ‘प्रमत्तो मधुपः'.