पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कुवलयानन्दः । [परिणामालंकारः ६ परिणामालंकारः६ परिणामः क्रियार्थश्चेद्विषयी विषयात्मना। " प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥ २१ ॥ यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगित्वेन निबध्यमानः स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतात्मना परिणतिमपेक्षते तत्र परिणामालंकारः। अत्रोदाहरणं प्रसन्नेनेति । अत्र हि अब्जस्य वीक्षणोपयोगित्वम् निबध्यते नतु दृशः । मयूरव्यंसकादिसमासेन उत्तरपदार्थप्राधान्यात् । न चोपमितसमासाश्र- यणेन दृगब्जमिवेति पूर्वपदप्राधान्यमस्तीति वाच्यम् । प्रसन्नेनेति सामान्य- धर्मप्रयोगात् । 'उपमितं ब्याघ्रादिभिः सामान्याप्रयोगे' इति तदप्रयोग एवो- पमितसमासानुशासनात् । अब्जस्य वीक्षणोपयोगित्वं न स्वात्मना संभवति । अतस्तस्य' प्रकृतद्र्गात्मना परिणत्यपेक्षणात्परिणामालंकारः ॥ यथावा- . तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयभुपकृतवानातरं नाविकाय।


वस्तुन आरोप्यमाणस्य शब्दविषयत्वं च द्रष्टव्यम् । 'प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः । विध्युतां नभसि नाट्यमण्डले कुर्वते स्म कुसुमाञ्ज- लिश्रियम् ॥' इत्यत्र प्रधानस्य नभसि नाट्यमण्डलत्वारोपस्यावयवभूतं विध्युतां नर्तकीत्वरूपणमार्थं न शाब्दमित्येकदेशे विशेषेण शाब्दतया वर्तनादेकदेशविवर्तितम्। 'कुरङ्गींवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेद्यभिनवां प्रवृत्तो- ऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इत्यत्र प्रेमलतिकामित्यमालारूपं निरवयवम् । 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः। विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया॥' इत्यत्र च-मालारूपं निरवयवं बोध्यम् । एवम् 'अलौकिकमहालोकप्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्ता- रत्नं न कैर्भवान् ॥' इत्यत्र वेणुकुलयोः श्लिष्टेन वंशपदेन कुले वेणुत्वारोपपूर्वक एव राज्ञि मुक्तारत्नत्वारोप इति श्लिष्टवाचकं केवलपरम्परितरूपकं विद्वन्मान- सेत्यादावेतदेव मालारूपम् । चतुर्दशलोकवल्लिकन्द इत्यत्राश्लिष्टवाचकं केवलपर- म्परितम्। 'पर्यङ्को राजलक्ष्म्याः ' इत्यादौ 'आलानं जयकुञ्जरस्य' इत्यादौ चाश्लिष्ट वाचकं मालापरम्परितं च द्रष्टव्यम् । विस्तरभयान्नेह प्रपञ्च्यते ॥ १७ ॥१८॥ ॥ १९॥२०॥ इत्यलंकारचन्द्रिकायां रूपकप्रकरणम् ॥५॥ __परिणामं लक्षयति-परिणाम इति ॥ विषयनिष्ठायाः प्रकृतकार्योपयोगि- ताया अवच्छेदिका विषयतात्मतापरिणतिः परिणामः । सा च विषयतादात्म्या : ध्यवसायविषयता । एवंच विषयामेदस्यैव विषयिणि विवक्षणादृगभिन्नेनाब्जेनेति खारसिक एव बोधो न तु रूपक इव दृङ्निष्ठाभेदप्रतियोगिनाब्जेनेत्वनुयोगित्व-

- -


- -