पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
उल्लेखालङ्कारः ७]
२१
अलंकारचन्द्रिकासहितः ।

च्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कुच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ॥

अत्रारोप्यमाण आतरः सौमित्रिमैत्रीरूपतापत्त्या गुहोपकारकलक्षणकार्योप- योगी न स्वात्मना गुहस्य रघुनाथप्रसादैकार्थित्वेन वेतनार्थित्वाभावात् ॥

उल्लेखालंकारः ७

बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते ।
स्त्रीभिः कामोऽर्थिभिः खर्द्रुः कालः शत्रुभिरैक्षि सः ॥२२॥

यत्र नानाविधधर्मयोग्यं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदेनानेकेन ग्रहीत्राने- कधोल्लिख्यते तत्रोल्लेखः । अनेकधोल्लेखने रुच्यर्थित्वभयादिकं


मुख इति रूपकाद्भेदो बोध्यः । असमासेऽप्युदाहरति--तीर्त्वेति । मुरारिनाट- कगतमेतत्पद्यम् । आत्मना तृतीयः । सीतालक्ष्मणसहित इति यावत् । असौ प्रक्रान्तो रामः भूतेशस्य शंभोर्मौलिमालारूपाममरनदी गङ्गां तीर्त्वा तस्मै नावि- काय गुहसंज्ञाय निषादपतये सौमित्रेर्लक्ष्मणस्य मैत्रीरूपमातरं तरणमूल्यमुपकृत- वान् उपकाररूपतया दत्तवान् । अथो अनन्तरं चित्रकूटं प्रति प्रतस्थे प्रस्थितवान्। कीदृशः । व्यामेन तिर्यक्प्रसारितभुजद्वयान्तरालेन ग्राह्यौ तावत्परिणाहौ स्तनौ यासां तथाभूताभिः शबराणां व्याधानां युवतिभिः कौतुकेनोदञ्चन्ति विक- सन्त्वक्षीणि यत्र क्रियायां तथा कृच्छ्रात्क्लेशात् अतएव क्षणमन्वीयमानः । अनुग- म्यमान इत्यर्थः ॥ २१ ॥ इति परिणामालंकारप्रकरणम् ॥ ६ ॥ | अथोल्लैखालंकारं लक्ष्यति—बहुभिरिति । एकस्य बहुधोल्लेखादित्यन्वयः । उल्लेखनं विषयीकरणमुल्लेखः । हेतौ पञ्चमी । तथा चैवंविधोल्लेखाद्धेतोरुल्लेख इष्प्यते उल्लेख इति व्यवह्वियत इत्यर्थः । व्यवहारं प्रति लक्षणस्य प्रयोजकत्वात् ॥ स्त्रीभिरिति ॥ स्वर्द्रुः खर्गसंबन्धी द्रुमः कल्पतरुः । कालो यमः । स प्रकृतो राजा । श्लोकं च्याचष्टे---यत्रेति ॥ नानाविधेति सौन्दर्यदातृत्वशूरत्वादिरूपे इत्यर्थः । तत्तद्धमैंति || रुच्यर्थिवत्वभयादिरूपेत्यर्थः । एतञ्च स्वरूपकथनं नतु लक्षणान्तर्गतम् । ननु द्वाभ्यां ग्रहीतृभ्यां निमित्तद्वयवशात्प्रकारद्वयेनोल्लेखेऽव्याप्तिरित आह ---अनेकेत्यादि । तथाच लक्षणे बहुपदमनेकपरमिति भावः । एवंच ग्रहीतृविषयाद्यन्यतमानेकत्वप्रयुक्तमेस्योल्लिख्यमानानेकप्रकारत्वमुल्लेख इति लक्षणं बोध्यम् । सौन्दर्यस्य तरङ्गिणीत्यादिमालारूपकवारणायाध्यं विशेषणम् । तत्र ग्रहीतृभेदयुक्तं नानेकप्रकारत्वमिति नातिव्याप्तिः । वक्ष्यमाणोल्लेखप्रभेद- साधारण्यायान्यतमप्रवेशः । तद्विवेचनं तध्व्याख्यानावसरे करिष्यामः । अन्यत- मानेकत्वप्रयुक्तमेकस्योल्लिख्यमानत्वमित्येतावदुक्तौ 'विद्याविक्रमसौन्दर्यतपसां निधिमागतम् । पश्यन्ति विबुधाः शूराः स्त्रियो वृद्धाश्च कौतुकात् ॥' इत्यत्राति- व्याप्तिरतोऽनेकप्रकारत्वमित्युक्तम् । नचोल्लिख्यमानप्रकारत्वमित्येवास्तु । उक्तो- दाहरणे प्रकारस्य कस्याप्यनुल्लेखादेवानतिप्रसङ्गादिति वाच्यम् । एवमपि नृ- कुच, ४