पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
रूपकालङ्कारः १]
१५
अलंकारचन्द्रिकासहितः ।

रूपकालंकारः ५

विषथ्यभेदताद्रूप्यरञ्जनं विषयस्य यत् ।
रूपकं तत्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ।। १७ । ।
अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात् ।
अयमास्ते विना शम्भुस्तार्तीयीकं विलोचनम् ।। १८ ॥
शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टितम् ।।
अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥ १९ ॥


रूपकं लक्षयति--विषय्यभेदेति ॥ रूप्यते इतरव्यावृत्ततया ज्ञायते धर्मी अनेनेति, रूपं तद्रूपमस्य।सौ तद्रूपस्तस्य भावस्ताद्रू़प्यं चन्द्रकार्यकारित्वादि विष- यिण उपमानस्यामेदतादूप्याभ्यां विषयस्योपमेयस्य यद्रञ्जनमिव रञ्जनम् । खोप- रक्तबुद्धिविषयीकरणमिति यावत् । तद्रूपकमित्यर्थः । रूपकं तदित्येव पाठः । रू- पकं त्विति पाठे तु तदित्यध्याहार्यम् । उपातबिम्बाविशिष्टविषयधर्मिकाहार्यायरो- पनिश्चयविषयीभूतमुपमानाभेदताद्रूप्यान्यतररूपकमिति तु निष्कर्षः । मुखं चन्द्र इत्यादौ नामार्थयोरभेदान्वयव्युत्पत्तिवशादाहार्यचन्द्राभेदनिश्चयाल्लक्षणसमन्व- यः । मुखमपरश्चन्द्र इत्यत्र तु न चन्द्राभेदो विषयः। अपर इति भेदस्य विवक्षि- तत्वात्। अपितु चन्द्रकार्यकारित्वरूपं ताद्रऊप्यमिति तत्रापि लक्षणसंगतिः । नच तस्य मुखे सत्वात्कथमारोप इति वाच्यम् । चन्द्रकार्यसजातीयकारित्वस्यैव मुखे संत्त्वादिति । यद्यपि नामार्थयोरभेदान्वयानुरोधादिहापि चन्द्रपदलक्षितस्य तत्कार्य- कारिणोऽभेदसंसर्गेणैव मुखेऽन्वयादभेदरूपकमेव, तथाप्युपमानतावच्छेदकरू पेणाभेदभाने एवामेदरूपकत्वं कार्यकारित्वादिरूपेणाभेदभाने तु तद्रूप्यरूपक- त्वमिति तात्पर्यम् । अत्र "कमलमनम्भसि कमले कुवलयमेतानि कनकलति- कायाम्" इत्याद्यतिशयोक्तिवारणायोपात्तेति विषयविशेषणम् । आरोपश्च निषेधा- नङ्गकत्वेन विशेषणीयः । तेनापह्रुतौ नातिव्याप्तिः । भ्रान्तिवारणायाहार्येति । ‘त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः॥" इति । निदर्शनावारणाय बिम्बाविशिष्टेति । संशयोत्प्रेक्षयोर्निरासाय निश्चयेत्युक्तमिति संक्षेपः ॥ आधिक्येत्यादि । आधिक्यमुपमानस्य स्वाभा- विकीमवस्थामपेक्ष्योपमेयतादात्म्यावस्थायां बोध्यम् । एवं न्यूनत्वमपि। अनुभव- माधिक्यन्यूनत्वोभयरहितमभेदताद्रूप्यान्यतरमात्रम् ॥ अयं हीत्यादि ॥ अयं वर्ण्यमानो राजा । येन हेतुना । पुरो नगर्युः। शिवस्यापि त्रिपुरदग्धृत्वात्स एवायमि- ति भावः। तार्तीयीकमिति तृतीयमेव तार्तीयीकम् ‘तीयादीकक्खार्थे वा वाच्य:' इति वार्तिकानुसारात्। विलोचनं विनेत्यन्वयः ॥ शम्भुरिति । अत्राप्ययमित्यं- नुषञ्ज्नीयम् । अन्यथातिशयोक्तयापत्त्या रूपकोदाहरणत्वासङ्गतेः । अद्य राजभा- १ ‘तादूप्यं'.