पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कुवलयानन्दः । [प्रतीपालंकारः ४. तदोजसस्तध्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ।। केचिदनन्वयोपमाप्रतीपानामुपमाविशेषत्वेन तदन्तर्भावं मन्वते । अन्ये तु पञ्चमं प्रतीपप्रकारमुपमानाक्षेपरूपत्वादाक्षेपालंकारमाहुः ॥१६ ॥ पमानकार्यकारित्वेन । अयं चोपमानकैमर्थै हेतुः । अतश्चोपमानकैमर्थ्यमित्यध्या- हार्यम् । आहादविशेषादेरन्यलभ्यत्वेन प्रयोजनत्वासंभवात्कैमर्थ्यमिति भावः। उपमानप्रयोजकधूर्वहत्वेनेति पाठे उपमानं प्रयोजकं यस्य इति बहुव्रीहिः । ननु 'उपमानकैमर्थ्यस्योपमानाक्षेपश्चाक्षेपः' इति वामनसूत्रेणाक्षेपालंकारत्वेनोक्तत्वा- त्कथं प्रतीपत्वमत आह-उपमानप्रातिलोम्यादिति । उपमानप्रतिकूलत्वादि- त्यर्थः । प्रतिकूलत्वं च तिरस्कारप्रयोजकत्वमित्युक्तम् । तथाच प्रतीपसामान्यल- क्षणाकान्तत्वात्प्रतीपान्तर्भाव एवोचित इति भावः ॥ तदोजस इति। नैष- धीये नैपधवर्णनमिदम् । विधिर्ब्रह्मा तस्य नलस्यौजसः प्रतापस्य तद्यशसश्च स्थितौ सत्यामिमौ सूर्यचन्द्रौ वृथा प्रतापज्योत्स्नादेः कार्यस्य ताभ्यामेवोपपत्तेर्निर्रथ- काविति चित्ते यदा यदा कुरुते तदा भानोर्विधोश्च परिवेषस्य परिधे:कै तवाच्छलात्कुण्डलनां वैयर्थ्यसूचिकां रेखावेष्टनां करोतीत्यन्वयः । अत्रच नायं परिवेषः किंतु कुण्डलनेत्यपह्रुतौ कैमर्थ्यरूपप्रतीपस्याङ्गत्वात्तयोरङ्गाङ्गिभावलक्षणः संकरः । यद्यत्पापमित्यादिवच्च तत्पदे वीम्साया अकरणं न दोष इति बोध्यम् । कैविध्ण्डीप्रभृतयः॥ अनन्वयोपमेयोपमाप्रतीपानामिति ॥ प्रतीपपदेन चात्राध्यभेदत्रयमेव गृह्यते न त्वन्त्यभेदद्वयमपि। तत्रोपमितिक्रियानिष्पत्तेरभावेनो- पमान्तर्भावस्यासंभवात् । वस्तुतस्खाध्यभेदत्रयस्यापि नोपमान्तर्गतियुक्ता। चम- त्कारं प्रति साधर्म्यस्य प्राधान्ये नाप्रयोजकत्वात् । सामर्थ्यनिबन्धन उपमानति- रस्कार एव हि तत्र चमत्कृतिप्रयोजकतया चिवक्षितो नतु साधर्म्यमेव मुखत- चमत्कारितया विवक्षितमिति सहृदयसाक्षिकम् । एवमनन्वयोपमेयोपमयोरपि न साश्यस्य चमत्कारितया प्राधान्येन विवक्षा किंतु द्वितीयतृतीयसदृशव्यवच्छे दौपायतयेति न तयोरप्युपमान्तर्गतिर्युज्यते । अन्यथा सादृश्यवर्णनमात्रेणोप- मान्तर्भावे "धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्धतः । गुणैस्तुल्योऽसि मेदस्तु वयुषैवेदृशेन ते"इति व्यतिरेकालंकारस्याप्युपमान्तर्गतिः स्यात् तत्र साधर्म्य समानाधिकरणं वैधर्म्यमेव चमत्कारे प्रधानं नतु साधर्म्यमिति चेत्तुल्यमिदं प्रतीपादिष्वपीति सहृदयैराकलनीयम् । एतावदेवाखरसबीजमभिसंधायोक्तं के चिदिति । अन्ये वामनादयः । अत्र चाखरसबीजं प्रागेवावेदितम् ॥१६॥ इति प्रतीपप्रकरणम् ॥ ४॥ . . . . . . . . . . .