पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[उपमालङ्कारः १
कुवलयानन्दः ।

कान्त्या स्मरवधूयन्तीत्यत्र वाचकोपमेयलोपः। अत्र कान्त्येति विशेषणसामर्थ्या- त्स्वात्मानं कामवधूमिवाचरन्तीत्यर्थस्य गम्यमानतया स्वात्मन उपमेयस्य सहोपभावाचकेनानुपादानात्स त्वैच्छिकः । स्वात्मानं स्मरवधूयन्तीत्युपमेयोपा- दानस्यापि संभवात् । काकतालीयमित्यत्र काकतालशब्दौ वृत्तिविषये काक- तालसमवेतक्रियावर्तिनौ, तेन काकागमनमिव तालपतनमिव काकवालमि- तीवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्समासः । उभयत्रोपमेयं स्वस्य क्वचिद्गमनं तत्रैव रहसि तन्व्या अवस्थानं च। तेन स्वस्य तस्याश्च समागमः काकतालसमागमसदृश इति फलति । ततः काकतालमिव काकतालीयमिति द्वितीयस्मिन्निवार्थे “समासाच्च तद्विषयात्' इति सूत्रेण ‘इथे प्रतिकृतौ' इत्य- धिकारस्थेन छप्रत्ययः । तथाच पतनदलितं तालफलं यथा काकेनोपभुक्तमेवं रहोदर्शनक्शुभितहृदया तन्वी स्वेनोपभुक्तेति तदर्थः । ततश्चात्र काकागमन- तालपतनसमागमरूपस्य काककृततालफलोपभोगरूपस्य चोपमानस्यानुपादा-


स्मरवधूयन्तीत्वत्रेति ॥ ननु ‘उपमानादाचारे' इति कर्मभूतादुपमानादाचारे क्यचों विधानात्स्मरवधूं रतिमिवाचरन्तीत्यवगमेऽप्यात्मानमन्यां वेति कथं निर्णयस्तत्राह-विशेषणेति ॥ रत्यनुरूपाचरणस्य क्रान्तिकरणकत्वरूपविशेषणसामर्थ्यादित्यर्थः । कान्तेः खरसतः स्वीयत्वावगमादिति भावः । न चात्मन उपमेयस्य तन्वीपदेनोपादानात्कथं लोप इति वाच्यम् । तस्या द्वितीयान्ततया कर्मभूतपमे- यासमर्पकत्वादात्मानमित्यध्याहृतेनैव तद्वोधात् । अत्रच स्मरवधूपदेन स्मरवधू- सादृश्यं लक्ष्यते । तस्य च प्रयोजकत्वसंसर्गेणाभेदेन वाचारेऽन्वयः । तथाच स्मरवधूसादृश्यामिन्न आत्मकर्मकोथ आचारस्तदाश्रयस्तन्वीति बोधः ।। काकतालीयेति ॥ वृत्तिविषये समासविषये ॥ ज्ञापकादिति । इवाथै समासाभावें तद्विषयादित्यनेनेवार्थविषयसमासानुवादोऽनुपपन्नस्तज्ज्ञापक इत्यर्थः । उभयत्र काकागमनतालपतनयोः । उपमेयमित्यनन्तरं क्रमेणेति शेषः । तेनेति ॥ काकतालसमवेतक्रियापरयोः काकतालपदयोरिवार्थे समासेनेत्यर्थः। काकतालसमागमेति ।अयं भावः । काकागमनतालपतयोरुपमानत्वे तदुपमेययोः स्वीयगमनतन्व्यवस्थानयोः पृथगनुपात्तत्वेनोपमेयतयान्वयायोगात्काकतालसमागम एवोपमानम्। इत्थंच काकतालसमागमसदृशं काकतालपदार्थस्तस्य चाभेदेन खीयतन्वीसमागमरूप उपमेयेऽन्वय इति ॥ तत इति ॥ तादृशसमासोत्तरमित्यर्थः ॥ इति तदर्थ इति॥ काकतालपदलक्षितस्य काककृततालफलोपभोगसशस्याभेदेन तन्वीरतिलाभरूपेणोपमेयेनान्वयादिति भावः । अत्र पतनदलितमिति रहोदर्शन- क्षुभितहृदयेति च बिम्बप्रतिबिम्बभावापन्नधर्मस्वरूपकथनं नत्वेवमन्वयाकार इति बोध्यम् । नच सकृदुच्चारिताभ्यां काकतालपदाभ्यां कथमुपमानद्वयावगम इति वाच्यम् । अनुभवानुसार्यनुशासनेन व्युत्पत्तिवैचित्र्यस्य स्फुटं प्रतिपत्तेरिति॥ एवं दुरूहत्वात्पध्यं व्याख्याय तत्रोपमानलुप्तादींश्चतुरोऽपि भेदान्प्रदर्शयितुमाह-तत- श्चेति ॥ काकागमनेत्यादि । काकागमनतालपतनरूपो यः समागमस्द्रूप-