पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- कुवलयानन्दः । [ऐतिह्यालंकारः ११८ यथावा- ये नास केचिदिह नः प्रथयन्त्यत्रज्ञां जानन्ति ते किमपि तान्प्रति नैष यक्षः। उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिविपुला च पृथ्वी ॥ यथावा- भ्रातः पान्थ कतो भवान्नगरतो वार्ता नवा वर्तते । बाद ब्रूहि युवा पयोदसमये त्यक्त्वा प्रियां जीवति । । सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न संभाव्यते ।।। अत्राद्योदाहरणे अभूतपूर्व मम भावि किं वेति संभवप्रमाणसिद्धार्थों दर्शि- तः। द्वितीयोदाहरणे संभवोपपादकं कालानन्त्यादिकमपि दर्शितम् । तुती- योदाहरणे तु संभवोऽपि कण्ठोक्त इति भेदः । . ऐतिह्यालंकारः ११८ . यथा- . कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ अत्र लौकिकी गाथेयमित्यनिर्दिष्टप्रवक्तृकप्रवादपारंपर्यरूपता दर्शिता ॥ अथैतेषामलंकाराणां यथासंभवं चिन्मेलने लौकिकालंकाराणां मेलन व चारुत्वातिशयोपलम्भानरसिंहन्यायेन पृथगलंकारावस्थितौ तनिर्णयः क्रियते । तत्र तिलतण्डुलन्यायेन स्फुटावगम्यभेदालंकारमेलने संसृष्टिः । कास्यप्रमाणसिद्धस्य कथनम् ॥ ये नामेति ॥ भवभूतेरुतिः। नामेति कुत्सने । 'बाम प्राकाश्यसंभाव्यकोघोपगमकुत्सने' इत्यमरः । किमपीति काकुः । न कि- मपीत्यर्थः । एषः काव्यनिर्माणरूपः । मम कोऽपि समानधर्मा सदृशो य उत्पन त्स्यते अस्ति वा तं प्रति यत्नः । हि यस्मानिरवधिरयं कालः पृथ्वी च विपुलेति क्रमेण योज्यम् । अत्र कालो झयमित्यादिना सोपपत्तिकं संभवाख्यप्रमाणमुपद- शितम् ॥ भ्रातरिति ॥ पथिकं प्रति ग्रामस्थस्य प्रश्नः । कुत इत्यनन्तरमागत इति शेषः । नगरादित्युत्तरम् । वार्तेति पुनः पूर्वस्य प्रश्नः । बाढमित्युत्तरमशी- कारे । अस्तीत्यर्थः । बहीति पूर्वस्योक्तिः । युवेत्यादि पान्थवचनम् । सत्यं जीव- तीति पुनः पूर्वस्व प्रश्नः । जीवतीत्यादि सर्व पान्थवचनम् । इति संभवः । अनिर्दिष्टप्रवक्तृकेति ॥ अनिर्दिष्टो विशेषतोऽनुक्तः प्रवक्ता यस्येत्यर्थः । एवं चैतदेवैतिह्यलक्षणमिति दर्शितम ॥ इति प्रमाणालंकारप्रकरणम. यथासंभवमिति ॥ संसृष्टिसंकराभ्यां द्वयोस्तदधिकानां वेति यथासंभव मित्यर्थः ॥ स्फुटेति ॥ स्फुटमवगम्यमानो भेदो येषामिति विग्रहः । एकसि वाचकेऽनुप्रवेशोऽवस्थितिः। एतत्सर्वमदाहरणे व्यक्तीभविष्यति॥