पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Thmmmmm भवालंकारः ११७ ] अलंकारचन्द्रिकासहितः। १७७ अर्थापत्त्यलंकारः ११५ अर्थापत्तिर्यथा- निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथा नोपपद्येत पयोधरभरस्थितिः॥ यथावा- व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी। गगौघनिर्भसितशम्भुकन्धरासुवर्णमर्णः कथमन्यथा स्यात् ।। अनुपलभ्यलंकारः ११६ अनुपलब्धियथा- स्फुटमसदवलमं तन्वि निश्चिन्वते ते __तदनुपलभमानास्तयन्तोऽपि लोकाः। कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीमः ॥ . . . . . संभवालंकारः ११७ प्रभवो यथा---

अभूतपूर्व मम भावि किं वा सर्व सहे मे सहजं हि दुःखम् ।
किं तु त्वदने शरणागतानां पराभवो नाथ न तेऽनुरूपः ॥

...' विषयखव्याख्यातुः स्मरस्येत्यर्थः। तच्चासिद्धलात्कल्पितमिति भावः। इति शब्दः॥ . . ' निणेतुमिति ॥ अस्तीति निर्णेतुं शक्यमित्यन्वयः ॥ व्यक्तमिति ॥ हेतुस्तर्कः । यदि व्यकं प्रकटं बलीयान् तदा सा जाह्नवी जलधिं नापूरयत् । अन्यथा पूरणे सति अर्णः समुद्रस्य जलं गहौधेनिभत्सितं तिरस्कृतं सच्छम्भु- कण्ठसमानवर्ण नीलं कथं स्यादित्यन्वयः । इत्यर्थापत्तिः ॥ स्फुटमिति ॥ हे तन्वि, तर्कयन्तस्तर्कशीला अपि लोकास्तवलममनुपल-. भमाना अपश्यन्तस्तवावलमें मध्यमसंदिति स्फुटमेव निश्चिन्वते । कुलपर्वतश्रे- ठेयुग्मत्वेनाध्यवसितं स्तनद्वन्द्वमाधार विना यदास्ते तस्विह मकरध्वजस्येन्द्रजालं मायाचरितं प्रतीम इत्यन्वयः। इत्यनुपलब्धिः ॥ अभूतेति ॥ ईश्वर प्रति भक्तस्योक्तिः । पूर्वमभूतमभूतपूर्व तादृशं मम किं. . वाभावि। न किंचित् । सर्वे शीतातपादि द्वन्द्व सह। हि यतों मम सहजमेव दुःखमस्ति । किंतु हे नाथ. ते तव शरणागतानां भकानां खने पराभवो नानु- रूपो नोचित इत्यन्वयः। अथवा तव नानुरूप इत्यन्वयः । अत्र दुःखादेः संभ- .. कुव०१७