सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
गूढोक्त्यलंकारः ८७ ] अलंकारचन्द्रिकासहितः ।


पहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम् । सूक्ष्मपिहितालंकारयोरपि चेष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च ।

नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः।
इति मम संकेतभुवि ज्ञात्वा भावं तदाब्रवीदालीम् ॥

 इत्यादिष्वपि सूक्ष्मालंकारः प्रसरति । अत्र क्ष्लोके तावल्किमावयोः संकेतस्थानं भविष्यतीति प्रश्नाशयं सूचयति कामुके तदभिज्ञया विदग्धया तदा सखी प्रति साकृतमक्तमिति सूक्ष्मालंकारो भवति । यतोऽत्र बलाकाया मरकतपानप्रतिष्ठितशुक्त्युपमया तस्या निश्चलत्वेनाश्वस्तत्वं तेन तस्य प्रदेशस्य निर्जनत्वं तेन तदेवावयोः संकेतस्थानमिति कामुकं प्रति सूचनं लक्ष्यते । नचात्र ध्वनिराशङ्कनीयः। दूरे व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तरस्य स्चोक्त्यैवाविष्कृतत्वात् । एवं पिहितालंकारेऽप्युदाहार्यम् । इदं चान्यदन्नावधेयम् । यत्रासौ वेतसी पान्थेत्यादिषु गूढोत्तरसूक्ष्मपिहितच्याजोक्त्युदाहरणेषु भावो न स्वोक्त्याविष्कृतः किंतु वस्तुसौन्दर्यबलाद्वक्तबोद्धव्यविशेषविशेषितादम्यः। तत्रैव वस्तुतो नालंकारत्वं, ध्वनिमावास्पदत्वात् । प्राचीनैः स्वोक्त्याविष्करणे सत्यलंकारास्पदतास्तीत्युदाहृतत्वादस्माभिरप्युदाहृतानि । शर्क्य हि ’यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् । इति पृच्छन्तमध्वानं कामिन्याह ससूचनम् ॥' इत्याद्यर्थान्तरकल्पनया भावाविष्करणमित्यतः प्राक् लिस्वितोदाहरणेषु संकेतकालमनसं पुंस्त्वं तन्व्या व्यञ्जयन्ती भामा जुगूहेति भावाविष्करणमस्ति तेष्वेव तत्तदलंकार इति ॥ १५३॥


गूढोत्यलंकारः ८७

गूढोक्तिर[]न्योद्देश्यं चेद्यदन्यं प्रति कथ्यते ।
वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥१५४ ॥

 यं प्रति किंचिद्वक्तव्यं तत्तटस्थैर्माज्ञायीति तदेव तदन्यं कंचियति क्ष्लेषेणोच्यते चेत्सा गूढोक्तिः । वृषेत्याधुदाहरणम् । परकलत्रं भुञ्जानं कामुक


ज्यमानमनुरागमेनं हरिं प्रणमन्ती सती जुगूह गोपितवतीत्यन्वयः । लक्ष्यते व्यज्यते ॥ एवमिति ॥ सूक्ष्मालंकारवदुक्तिरूपन्यापारवर्णनमित्यर्थः । उदाहर्तव्यमिति ॥ यथा वक्रस्पन्दीति पघ एवं 'आली बाला सत्मितं प्राह मन्दं मुग्धाक्षि त्वामद्य पश्यामि नाथम्' इत्युत्तरार्ध निर्माणे नाथमित्युक्त्या प्रकाशन मिति बोध्यम् ॥ वस्तुसौन्दर्येति ॥ वेतसीनिकुञ्जरूपवस्तुसौन्दर्येत्यर्थः । ध्वनिभावास्पदलाद्ध्वनिलाश्रयत्वात् ॥ उपसंहरति-अत इति ॥ येष्विलस्य भावाविष्करणमस्तीत्यनेनान्वयः ॥ १५३ ॥ इति ब्याजोक्त्यलंकारः ॥ ८६ ॥

 गूढोक्तिरिति॥ यद्यदन्योद्देश्यकं वाक्यं तत्तदन्य प्रति कथ्यते चेद्गूढोक्तिरलं-


  1. 'न्योद्देश्याशीर्यदन्य'